________________
प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये
२६५ सविस्तरतरं व्याख्यानं कृतम् । लज्जितः सचिवेन्द्रः । पादोर्लगित्वा सूरीन् क्षमयित्वा 'चलितः । क्रोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः । तदनु स्वभृत्य सचिवमेकमाकार्य आदिक्षत् । इयं वाहिनी हेमसहस्रदशबदरकयुक् सूरिभ्यो मठे देया । गतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः । मन्त्रिदत्तमिदमवधार्यताम् । ५ आचादृष्टम् । अश्वमारुह्य भटशतोल्लालितकृपाणजलप्लावितरवास्तत्र गताः यत्र श्रीवस्तुपालः । उदितश्च तैः-मन्त्रिन् ! किमहमुचितभाषी ? किं चारणः ? किं वा बन्दी ? किं नु सर्वसिद्धान्तपारगः सम्यग् जैनसूरिः ? । मया मनःप्रमोदेन यद् 'व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि ?। न मयेदं वित्ताया- १० भिहितम् । किन्त्विदं अन्तर्मनस ध्यात्वा भणितं यथाऽद्यापि जयति जिनपतिमतम् । मन्त्री प्राह-भवन्तो निःस्पृहत्वान्न गृह्णन्ति । वयं तु दत्तत्वान्न प्रतिगृह्णीमः । तर्हि कथमनेन हेम्ना भवितव्यमिति शिक्षा दत्त । ततः सूरिभिर्जगदे जगदेकदानी मन्त्री-स्वगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मैचिद् वा ?। मन्त्री आह-प्रभो! १५ 'भृगुपुरं' श्रीसुव्रततीर्थवन्दनार्थं गच्छन्तः स्मः । आचार्याः प्राहु:तर्हि लब्ध इदहेमव्ययोपायः । तत्र लेप्यमयी प्रतिमाऽऽस्ते । तत्र स्नात्रसुखासिका ने पूर्यते श्रावकाणाम् । तस्मादनेन हेममयीं स्नात्रप्रतिमा निर्मापयत । मन्त्रिणो ध्वनितं मनः । तत् तथैव च कृतम् । ततः समायातः स्वसदनं 'गूर्जर'मन्त्री ।
२० अन्येधुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि अपाठिब।
अधीता न कला काचित्, न च किञ्चित् कृतं तपः ।
. १ 'चलितः' इत्यधिको ग-पाठः । २ युष्माकम् । ३ 'तीर्थकद्वारकसदृशं एवं. विधः पुरुषरत्नैः धनं' इत्यधिको ग- पाठः। ग- 'दानवीर 1 मन्त्रिन् !'। ५ घ-निपूर्यते' । ६ ख-घ-'गजरेन्द्रमन्त्री' । चतुर्विशति. २९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org