________________
प्रबन्धः
प्रबन्धकोशेत्यपराये
नोवाच-अस्मान् नन्तुं किमिति नागच्छसि ।। स प्रतिवक्तितव नवेयं रीतिः । प्रागपि नागच्छामि । यत् तु स्यान्न्यूनं तव तदा तत् पूरयामि स्थानस्थः । तच्छृत्वा मन्त्री रुष्टः कथापयामास-पुरुषो भूत्वा तिष्ठेः । शास्मि त्वां दुर्विनीतम् । ततस्तेन 'वडू'आख्यवेलाकूलस्वामी राजपुत्रः पञ्चाशद्वंशमध्यस्थखादिरमुशलस्य एकखंगप्रहारेण छेदने प्रभुः प्रभूतसैन्यत्वात् 'साहणसमुद्र' इति ख्यातः शङ्खाख्य उत्थापितः । तेन 'भाणितं मन्त्रिणे-मन्त्रिन् ! मदीयमेकं नौवित्तकं न सहसे ? । मदीयं "मित्रमसौ । तस्माद् वचनात् क्रुद्धो मन्त्री तं प्रत्यवोचत्-३मशानवासी भूतेभ्यो न बिभेति । त्वमेव प्रगुणो भूत्वा युधि "तिष्ठेः । इति श्रुत्वा सन्नद्धबद्धो भूत्वा सोऽप्यागतः । १० मन्त्रिवस्तुपालोऽपि 'धवलक्कका'द् भूरि सैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रे मिलितौ द्वौ । प्रारब्धं रणम् । शखेन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशो दिशि । तदा श्रीवस्तुपालेन वस्य राजपुत्रो माहेचकनामा भाषितः-इदं अस्मन्मूलघट्ट वर्तते त्वं च वर्तसे । तत् कुरु येन श्रीवीरधवलो न लज्जते । ततोऽसौ राज- १५ पुत्रः स्वैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच--शङ्ख! नेयं 'वडू'आख्या तव ग्रामटिका क्रीडा, क्षत्रियाणां स ग्रामोऽयम् । शङ्खोऽप्याह- सुष्ठु वक्तुं वेत्सि | नायं तव प्रभोः पट्टः, किल परिपन्थिनः प्रदेशः । किं नु सुभटस्य क्रीडाक्षेत्रमिदम् । इत्येवं वादे जाते द्वन्द्वरणे माहेचकेन मन्त्रिणि पश्यति मन्त्रिप्रता- २० पाच्छङ्खः पातितः । समरे जातो जयजयकारः । मन्त्रिणा तद्राज्यं गृहीतम् । वेला'कूलीनां क्व सङ्ख्याः । ततः 'स्तम्भ'तीर्थ
१ ख-घ-'स वक्ति-न न चेयं रीतिः'। २ ग-पुस्तके 'तदा' इत्यधिकः पाठः। ३ ख-घ-'खड्नेन छेदने'। क ख-भणित'। ५ 'ज्ञेयः' इत्यधिको ग-पाठः । ६ घ'प्रत्यवीवचत्' । ७ घ-'तिष्ठेथाः । सन्नद्ध. सः । मन्त्रि०' । ग-'मन्त्रिणा वस्तुपालेनापि'। ९ ग-घट्ट त्वमेव वर्तसे । अथ तत्'। १० ग-'ग्रामसीम आखेटकक्रीडा, किन्तु' । ११ ख-'कूलनृपक्रद्धीना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org