SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । प्रबन्धकोशेत्यपराह्वये 34 " मदनवर्माणमपश्यत् । मदनवर्माऽप्यभ्येत्याश्लिष्य हैमासनं दत्त्वा तमभाणीत् - सिद्धेन्द्र ! पुण्यमद्यास्माकं येन त्वमतिथिः सम्पन्नोऽसि । सिद्धराजः प्राह - राजन् ! आवर्जनावचनमिदं मिथ्या; यत् तु मन्त्रिणाम 'कबाडी' इत्युक्तं तत् सत्यम् । मदनवर्मा जहास - सिद्धेश ! केन वा विज्ञप्तमिदम् ? । सिद्धेशः प्राह - तैरेव ५ मन्त्रिभिस्तावकैः । कोऽभिप्रायो मन्निन्दाभणने देवस्य ? | मदनवर्मा आह- देव! कलिरयम्, अल्पं जीवितम् मिता राज्यश्रीः, तुच्छं बलम्, तत्रापि पुण्यैः स्फीतं राज्यं लभ्यते, तदपि चेत् न भुज्यते, रुल्यते विदेशेषु, तत् कथं न कबाडिकस्त्वम् । सिद्धेशेनोक्तम् - सत्यं सत्यम्, एतादृशः कर्बाटिक एवाहम् । त्वमेवायं १ धन्यो यस्येत्थं शर्माणि । त्वयि दृष्टेऽस्माकं जीवितं सफलम् । चिरं राज्यं भुङ्क्ष्व । इत्युक्त्वा तस्थौ । मदनवर्मणोत्थाय निजं परिजनकोशदेवतावसरादि सर्व दर्शितम् । प्रेमाऽवृधत् । विंशत्युत्तरं पात्रशतं स्वाङ्गसेवकं सिद्धराजाय व्यतरत् । तेन प्रीतो जयसिंहदेवः सैन्यं गृहीत्वा 'धारां' जित्वा पत्तनं 'अणहिलपुरं' प्रविष्ट: । १५ तेषां १२० मध्यादर्धं पथि मृतं मार्दवात् शेषं पत्तने प्रविष्टम् । पत्तनप्रवेशोत्सवे श्रीपालकविना सिद्धरोजोपश्लोकना " काव्यम् - विश्वसूत्रधार ! भगवन् ! कोऽयं प्रमादस्तव न्यस्यैकत्र निवेश यस्य परतस्तान्येव वस्तूनि यत् । पाणिः पश्य स एष यः किल बलेर्वाक् सैव थर्स्य या चारित्रं च तदत्र यद् रघुपते ' चौलुक्य' चन्द्रे नृपे ॥ १ ॥ पुन: मानं मुच 'सरखति' ! त्रिपथगे ! सौभाग्यभङ्गीं त्यज रे 'कालिन्दि' ! तत्राऽफला कुटिलता ' रेवे' ! रयस्त्यज्यताम् । २५ २० १ विवेक (?) । २ घ - 'कटिकत्वम्' । ३ 'सर्व' इत्याधिको ग-पाठः । ४ ख-'धारामध्ये' । ५ ख - राजा वर्णितः' । ६ शार्दूल० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy