SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [२० श्रीलक्षणसेन । [२०] ॥ अथ लक्षणसेनस्य प्रबन्धः॥ मन्त्रिणः कुमारदेवस्य च पूर्वस्यां ' लक्षणावती' पूः । तत्र लक्षणसेनो नाम प्रतापी न्यायी नृपः । तस्य द्वितीयमित्र जीवितं प्रज्ञाविक्रमभक्तिसारो मन्त्री कुमारदेवः । विपुलं राज्यम् । अपारं सैन्यम् । अत्रान्तरे ' वाराणस्यां ' गोविन्दचन्द्राख्यनृपपुत्रो जयन्तचन्द्रो राजा । तस्य विद्याधरो मन्त्री । महेच्छानां अन्नदातृणां सत्यवादिनां च प्रथमः । एकदा जयन्तचन्द्रसभायां वार्तेयमासीद् यल्लक्षणावती'दुर्ग १० दुहम् । राजा महाचमूसमूहमम्पन्नः तां वार्तामवधार्य 'कासीपतिः प्रतिज्ञां सभासमक्षमग्रहीत्-इतश्चलित्वाऽस्माभिर्लक्षणावती'दुर्ग ग्रहीतव्यम् ; अथ न गृह्णामि तदा यावन्ति दिनानि दुर्गतटे तिष्ठामि तावन्ति हेमलक्षाणि दण्डे गृह्णामि; अन्यथा न निवर्ते । इति सन्धां निर्माय प्रयाणढक्कामदापयत् । मिलितः समकालं १५ राजलोकः । जाता गजमयीव सृष्टिः । भूपालमालामयीव भूमिः । अश्वमयमिव जगत् । निर्गतं सैन्यं बहिः । अखण्डितैः प्रयाणैर्भञ्जन् परबलान् , शोषयन् सरांसि, पङ्कयन् नदीः, समीकर्वन् विषमाणि, चूर्णयन् शिखराणि, लेखयन् शासनानि, जीवयन् साधुलोकान् , ' लक्षणावती ' प्राप्तः । दुर्गान्नातिदूरासन्ने भूभागे आवासान् दापयामास । लक्षण सेनस्तु द्वाराणि पिधाय पूर्मध्ये एव तस्थौ । क्षु(क्षो)भिता पुरी । सङ्कीर्णत्वमापन्नमन्न-पाथो-घृत-तैल-वसन-ताम्बूलादिवस्तूनाम् । स्थाने स्थाने वार्ता आताः प्रवर्तन्ते । ' कासीपतिस्तु मुत्कलं परदेशं प्रसते। सार्था एहिरेयाहिरां कुर्वन्ति सुभिक्षमक्षामम् । १ ख-महोत्थानां' । २ ख-घ-दात्रीणां' । ३ क-ख-'मद्राक्षीत्' । ख'ताम्बल-दलीदलादिवस्तूनाम्'। ५ क-ख-'प्रावर्तन्ते' ।६ 'मोकळो' इति भाषायाम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy