________________
१००
चतुर्विंशतिप्रबन्धे [१० श्रीहेमचन्द्रसूरिदमलक्षदत्तिरत्र । पुनः कदाचित् पठितम्श्रीवीरे परमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं
प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधाद्
यस्यास्वाद्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः॥१॥' अत्रापि लक्षदत्तिः । अन्येद्युः कथाप्रसङ्गे प्रभवः प्राहुः स्म---
पूर्व श्रीभरतो राजा 'श्रीमाल'पुरे 'नगर' पुरे 'शत्रुनये' 'सोपारके 'अष्टापदे' च जीवन्तस्वामिश्रीऋषभप्रतिमावन्दनार्थ च चतुरङ्ग' चमूचक्रोच्छलितरजःपुञ्जध्यामलितदिक्चक्रवालः सङ्घपतिर्भूत्वा ववन्दे । तदाकर्ण्य श्रीचौलुक्यः स्वयं कारितरथेऽर्हद्विम्बमारोप्य ससैन्यः 'शत्रुञ्जयो'-'जयन्ता'दियात्रायै चचाल । सङ्घ उदयनसुतो वाग्भटश्चतुर्विंशतिमहाप्रासादकारापकः; नृपनागाख्यश्रेष्ठिभूः श्रीमान् आभडः, पंड्भाषाकविचक्रवर्ती श्रीपालः, तद्भः
सिद्धपालः, कवीनां दातृणां च धुर्यो भाण्डागारिकः कपर्दी, १५ ‘परमार वंश्यः 'कूर्चालसरस्वती' 'प्रह्लादन'पुरनिवेशको राणः
प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लः, नवतिलक्षहेमस्वामी श्रेष्ठिछाडाका, राज्ञी भोपलदेवी, चौलुक्यपुत्री लीलूः, राणअम्बडमाता माऊः, आभडपुत्री चाम्पल इत्यादि, कोटीश्वरो लोकः, 'श्रीहेमचन्द्रसूरिपादाः, श्रीदेवसूरयः, श्रीधर्मसूरयः, लक्षसङ्ख्या मानवाः । स्थाने स्थाने प्रभावना । जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः । प्रथमं 'रैवता'द्रितले साङ्कलीयालीपंद्या दिशि गत्वा स्थितः क्षितिपतिः । नान्दीनिर्घोषः । रात्रौ भारत्या श्रीहेमसूरिभ्य आदिष्टम्- राज्ञा नादावारोढव्यं,
१ ख-'लक्षं दत्तिः' । २ शार्दूल । ३ ख-घ-'नगरे पुरे' । । संस्कृत-प्राकृतशौरसेनी-मागधी पैशाची-अपभ्रंश इति भाषाषट्कम् । ५ घ-वंशः' । ६ 'पालनपुर' इति भाषायान् । ७ ख-'राजा अम्बड । ८ ग-चाम्पलदे इत्यादि' । ९ घ'श्रीहेमसूरि०' । १० स्त्र-पाचा' । ११ क-नैवाद्रौ आरोदव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org