SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तपागच्छ पट्टावली संविज्ञमौलिविकृतीश्चसर्वा - स्तत्याज देहेन्यममः सदा यः ॥ विद्वद्विनेयाभिवृतः प्रभाव-प्रभागुणोधैः किल गौतमाभः ॥२॥ हरिभद्रसूरिरचिताः, श्रीमदनेकांतजयपताकाद्याः ।। पंथनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ ३ ॥ सत्पंजिकादिपद्या-विरचनाया भगवता कृता येन ॥ मंदधियामपि सुगमा--स्ते सर्वे विश्वहितबुध्या ॥ ४ ॥ अष्टहयेश११७८मिताब्दे, विक्रमकालादिवं गतो भगवान् ।। . श्रीमुनिचंद्रमुनींद्रो, ददातु भद्राणि संघाय ॥ ५॥ अनेन चानंदसूरिप्रभृतयोऽनेके निजबांधवाः प्रव्राज्य सूरीकृताः॥ अयं च श्रीमुनिचंद्रसूरिः श्रीनेमिचंद्रसूरिगुरुभ्रातृश्रीविनयचंद्रोपाध्यायस्य 10 शिष्यः श्रीनेमिचंद्रसूरिभिरेव गणनायकतया स्थापितः । यदुक्तं.-. गुरुबंधुविनयचंद्राध्यापकशिष्यं स नेमिचंद्रगुरुः ।। यं गणनाथमकार्षीत् , स जयति मुनिचंद्रसूरिरिति ॥१॥ अत्र च एकोनषष्ठ्यधिकैकादशशत१.१५६ वर्षे पौर्णिमीयकमतोत्पत्तिः तत्प्रतिबोधाय च मुनिचंद्रसूरिभिः पाक्षिकसप्ततिका कृतेति ॥ 15 तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसरि--वादिश्रीदेवसूरिप्रभृतयः ॥ तत्र वादिश्रीदेवसूरिभिः श्रीमदणहिलपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वजनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगंबरचक्रवर्तिनं वादलिप्सुं कुमुदचंद्राचार्य वादे निर्जित्य श्रीपत्तने दिगंबरप्रवेशो निवारितोऽद्यापि प्रतीतः ॥ तथा वि० चतुरधिकद्वादशशत१२०४ 20 वर्षे फलवर्धिग्रामे चैत्यबिंबयोः प्रतिष्ठा कृता । तत्तीर्थं तु संप्रत्यपि प्रसिध्धं ॥ तथा श्रारासणे च श्रीनेमिनाथप्रतिष्ठा कृता ॥ चतुरशीतिसहस्र८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रंथः कृतः ॥ येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विंशतिसूरिशाखं बभूव ॥ एषां च वि० चतुत्रिंशदधिके एकादशशत११३४वर्षे जन्म, द्विपंचाशदधिके ११५२ दीक्षा, चतुःसप्त- 25 स्यधिके११७४ सूरिपदं, षड्विंशत्यधिकद्वादशशत१२२६वर्षे श्रावणवदि. सप्तम्यां ७ गुरौ स्वर्गः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy