________________
तपागच्छ-पट्टावली
४५ ८-अट्ठमगत्ति, श्रीस्थूलभद्रपट्टेऽष्टमौ पट्टधरौ श्रीआर्यमहागिरिः श्रीसुहस्ती चेत्युभावपि गुरुभ्रातरौ । तत्र श्रीआर्यमहागिरिजिनकल्पिकतुलनामारूढो, जिनकल्पिककल्पः । त्रिंशत् ३० गृहे, चत्वारिंशत् ४० व्रते, त्रिंशत् ३० युग०, सर्वायुः शत १०० व० परिपाल्य स्वर्गभाक् ॥
द्वितीयेनाऽऽर्यसुहस्तिना पूर्वभवे द्रमकीभूतोपि संप्रतिजीवः प्रव्राज्य 5 त्रिखंडाधिपतित्वं प्रापितः। येन संप्रतिना त्रिखंडमितापि मही जिनप्रासादमंडिता विहिता साधुवेषधारिनिजवंठपुरुषप्रेषणेनाऽनार्यदेशेपि साधुविहारः कारितः ॥ सच आर्यसुहस्ती त्रिंशत्३०गृहे, चतुर्विशति२४व्रते, षट्चत्वारिंशत् ४६ युग प्र० सर्वायुः शतमेकं १०० परिपाल्य श्रीवीरात् एकनवत्यधिकशतद्वये २६१ स्वर्गभाक् ॥
10 ___ यद्यपि श्रीस्थूलभद्रस्य पंचदशाधिकशतद्वय२१५वर्षे स्वर्गो गुर्वावल्यनुसारेणोक्तः । श्रीमहागिरि-सुहस्तिनौ तु त्रिंशत्३०वर्षगृहस्थपर्यायावपि शत१००वर्षजीविनौ दुष्षमासंघस्तोत्रयंत्रकानुसारेणोक्तौ । तथा च सति श्रीआर्यसुहस्ती श्रीस्थूलभद्रदीक्षितो न संपद्येत, तथापि गृहस्थ पर्यायवर्षाणि न्यूनानि व्रतवर्षाणि वाधिकानीति विभाव्य घटनीयमिति ॥ 15
तथा श्रीसुहस्तिदीक्षिताऽवंतिसुकुमालमृतिस्थाने तत्सुतेन देवकुलं कारितं तस्य च “ महाकाल " इति नाम संजातं ।
श्रीवीरनिर्वाणात् विंशत्यधिकवर्षशतद्वये २२० अश्वमित्रात् सामुच्छेदिकनामा चतुर्थो निह्नवः । तथा अष्टविंशत्यधिकशतद्वये २२८ गंगनाम्ना द्विक्रियः पंचमो निह्नवः ॥ छ॥
20 ___-सुट्टिअत्ति, श्री सुहस्तिनः पट्टे नवमौ श्रीसुस्थित-सुप्रतिबन्धौ, कोटिक-काकंदिको । कोटिशःसूरिमंत्रजापात् कोट्यंशसूरिमंत्रधारित्वाद्वा । ताभ्यां कौटिक नाम्ना गच्छोऽभूत अयं भावः- श्रीसुधर्मस्वामिनो ष्टौसूरीन यावत् निग्रंथाः साधवोऽनगारा इत्यादि सामान्यार्थाभिधायिन्याख्याऽसीत् नवमे च तत्पट्टे कौटिका इति विशेषार्थाववोधकं द्वितीयं नाम 25 प्रादुर्भूतं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org