________________
१७४
पट्टावली-समुच्चयः उद्धारः कृतः । तस्य च विक्रमात् १५५३ वर्षे जामलास्थाने जन्म । १५६२ व्रतं, १५८२ (८७) सूरिपदं, (सच) १६२२ वर्षे स्वर्यर्यो ।
तत्पट्टे ५८ श्रीहीरविजयसूरिः । तस्य विक्रमात् १५८३वर्षे मार्गसुदि ६ जन्म, पितुर्नाम कंवरजी, मातुर्नाम नाथीबाई, वृद्ध उकेशज्ञातिः पी मसरागोत्रं सं०१५६६ दीक्षा,सं०१६०७ पंडित पदं, १६०८ वरकाणपार्श्वे, 5 वाचकपदं, सं० १६१० सीरोहीनगरे सूरिपदं, श्रीआगरानगरे श्री चिंतामणिपार्श्वस्य १६४० प्रतिष्ठा कता। तथा लुपकमते ऋ-मेघजीनाम्ना स्वमतं परित्यज्य पंचविंशतिमुनिगु(ग)णेन समं श्रीसूरिपार्श्वे दीक्षा गृहीता। येपामुदपद्देशामृतरसमाऽऽकन्ठं निपीय राजाधिराजपातस्याहश्रीमदकव्बरसमाट् स्वकीये अनेकदेशसमुदायात्मकद्वादशसूबास्थाने पाण्मासिकामारिप्रव- 10 र्तनं, जेजीयाख्यकरमोचनं च चक्रे । तद्वयतिकरस्तु जगतः प्रतीतः, सामस्त्येन वक्तु वाक्पतिरप्यशक्तः । तस्य च विक्रमात् १६५२ वर्षे भाद्रपदशुक्लैकादश्यां सौराष्ट्र उन्नतपुरे सर्वातिचारालोचनपूर्वमनशनेन स्वर्गः । तत्तीर्थं सु जलधिवेलानिलान्दोलत्पताकं स्तूपरूपं संसारार्णवतरणे यानपात्रतां स्वस्य ख्यापयज्जयति ।
15 तत्पट्टे ५६ विजयसेनसूरिः । येन भगवता महाराजाधिराजपातस्याहअकबरसभायां पंचशतभटैः सह बादं विधाय जयश्रियाः पाणिग्रहश्चक्रे "कालीसरस्वती"विरुदं लभ । वैदुभ्यममुष्य पुनर्वाचस्पतेरप्यतिशायि । तचिह्नतु नमोदुर्वाररागादीति योगशास्त्रसूत्राद्यपद्यस्यार्थसप्तशती श्रीगुरुभिर्विदधे, सुक्तावल्याद्यनेकशो ग्रंथाश्च । विस्तारार्थं विजयप्रशस्ति- 20 रालोक्या । तेषां नारदपुर्या विक्रमात् १६०६ (४) वर्षे जन्म, १६१७(१३) दीक्षा, १६२८ रिपदं १६७२(७१) वर्षे श्रीस्तंभतीर्थे स्वर्गः।
तत्पट्टे ६० श्रीविजयदेवसूरिः । मानुष्येपि देवमूर्तिरेव यावज्जीवं पुनः पुनः च विकृतित्यागी संप्रति वर्तमाने तपसा षष्ठाष्टमचतुर्थादिभिरावीन (?) धन्यर्षेरप्यतिशायी । श्रीवीर इव दुर्गोपसर्गेप्यक्षुब्धधैर्यः 25 गच्छांतरीयैर्विरोधे क्रियमाणेपि सञ्जातवैराग्यशांतरसो संविनमौलिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org