________________
पट्टावली - समुच्चयः
तत्पट्टे ४६ देवसुन्दरसूरिस्तेषां शिष्याः श्रीज्ञानसागरसूरिः " श्री कुलमण्डनसूरिः" प्रमुखा विद्वांसः क्रियापरायणा विविधग्रंथकृतो बभ्रुवुः । तत्पट्टे ५० सोमसुन्दरसूरिः प्राग्वंशी राणपुरप्रतिष्ठाकृत् पालणपुरे भगिन्या सह संयमं जग्राह ।
१७२
तत्पट्टे ५१ मुनिसुन्दर सूरिः कृष्णसरस्वती बिरुदभृत, संविप्रमौलि 5 रध्यात्मकल्पद्रुम-सन्तिकरादिग्रंथकृत् । विक्रमात् १५०३ वर्षे स्वर्ययौ ।
तत्पट्टे ५२ श्रीरत्नशेखरसूरिः अस्य १४५७ वर्षे जन्म १४६३ व्रतं १४८३ पंडितपदं १४९३ वाचकपदं १५०३ सूरिपदं सं० १५१७ पोसवदि, ६ दिनेस्वर्ययौ । एतत्कृता ग्रन्थाश्च श्राद्धविध्यादयस्तदा लुम्पकाख्यलेखकात् विक्रमतः १५०८ वर्षे लुङ्कामतं प्रवृत्तं तन्मतवेषधरास्तु 10 १५३३ वर्षे जाताः ।
तत्पट्टे ५३ लक्ष्मीसागरसूरिः । तस्य विक्रमात् १४६० (६४) वर्षे जन्म १४७० दीक्षा, १४६६ पंडितपदं, १५०१ वाचकपदं १५०८ श्रचार्यपदं, सं० १५१७ गच्छनायकपदं ।
तत्पट्टे ५४ सुमतिसाधुसूरिः ।
तत्पट्ट े ५५ हेमविमलसूरिः । यो भगवान् क्रियाशिथिलसमुदायोपि स्वयं संविग्नः क्रियोद्धार करणे ऋषिहानाश्रीपतिऋषिगणपत्याद्या लुकामतं त्यक्त्वा श्रीगुरोः पार्श्वे प्रवृज्य तन्निश्रां यावज्जीवं प्रपेदिरे ।
तत्समये विक्रमात् १५६२ वर्षे कटुकमतं, १५७० वर्षे लुङ्कामतान्निर्गत्य बीजाख्येन ऋखेन बीजामतमुत्पेदे ततः विक्रमात् १५७२ वर्षे नागपुरीयत - 20 पागणान्निर्गतपार्श्व चन्द्रोपाध्यायेन सं० १५७५ पार्श्वचन्द्रमतमुद्भावितं ।
1
Jain Education International
तत्पट्टे ५६ श्रीआणंदविमलसूरि । सुविहिताप्रणीः कुमततमोदिनकरस्तस्य विक्रमात् १५४७ वर्षे इलादुर्गे जन्म । १५५२ व्रतं १५७० सूरिपदं येन स्वामिना दुष्कालप्रभावजन्यविविधकुपथमुझमानजनान् विलोक्य तदुद्धार निर्द्धारितमतिना गुर्वाज्ञया विक्रमात् १५८२ वर्षे क्रियोद्धार करणेन 25 व्युच्छिन्न तीर्थं प्रभावितं तदद्यापि संवेगमतं ।
For Private & Personal Use Only
15
www.jainelibrary.org