________________
पट्टावली - समुच्चयः
तदा मनः पर्यवज्ञानं १ परमावधिज्ञानं २ पुलाकलब्धिः ३ आहारक शरीरं ४ क्षपकश्रेणिः ५ उपशम श्रेणिः ६ जिनकल्पिमार्गः परिहारविशुद्धिचारित्र १ सूक्ष्मसम्पराय २ यथाख्यात ३ रूपसंयमत्रयं ८ केवलज्ञानं ६ मोक्षगमनं १० एते दशपदार्था अत्र भरते व्यछिन्नाः ।
तत्पट्टे ३ श्रीप्रभवस्वामी । स च त्रिंशद्वर्षाणि ३० गृहे चतुश्चत्वा- 5 रिंशत् ४४ वर्षाणि व्रते एकादश ११ वर्षाणि युगप्रधानभावे सर्वायुः पञ्चाशीति ६५ वर्षाणि प्रपात्य श्रीवीरात् ७५ पंचसप्ततिवर्षे स्वर्ययौ । ( नवनंद इणांकै वारे )
१६४
तत्पट्टे ४ श्रीशय्यंभवस्वामी । स च स्वगृहे यज्ञं कुर्वाणः पंचशतद्विजै: "अहोकष्टमहोकष्टं तत्वं न ज्ञायते कचिदिति" साधुवचः श्रुत्वा यज्ञस्तं 10 भाधःस्थितश्रीशांतिजिनबिंबदर्शनाद् बुद्धः । श्रष्टाविंशतिवर्षाणि गृहे स्थित्वा व्रतं ललौ । एकादश ११ वर्षाणि व्रते त्रयोविंशतिवर्षाणि युगप्रधानत्वे सर्वायुर्द्वाषष्टि६२वर्षाणि प्रपात्य श्रीवीरात्९ वर्षातिक्रमे स्वर्ययौ ।
अनेन भगवता मनकनाम्नः स्वसुतस्य पठनाय दशवैकालिकं कृतं ।
तत्पट्टे ५ श्रीयशोभद्रस्वामी । स च २२ वर्षाणि गृहे १४ वर्षारिण 15 वे ५० वर्षाणि युगप्रधानत्वे सर्वायुः षडशीति८६वर्षाणि प्रपाल्य श्रीवीरात १४८ वर्षांते स्वर्ययौ ।
तत्पट्टे ६ श्रीसम्भूतिविजयस्वामि- श्रीभद्रबाहुस्वामिनौ एतौ द्वौ षष्ट पट्टधरौ बभूवतुः तत्र प्रथमः ४२वर्षाणि गृहे ४० वर्षाणि व्रते अष्टौ वर्षाणि युगप्रधानत्वे सर्वायुर्नवति ६० वर्षाणि परिपाल्य स्वर्ययौ ।
भद्रबाहुस्वामी पुन: श्री आवश्यकादिनिर्युक्तिकृत् । तद्भ्राता वराहमिहरस्त्यक्तत्रतो राज्ञःपुरोहितो राज्ञः पुरोनिमित्तप्रकाशाद्यैः प्राप्तप्रतिष्ठः तद्भ्रातुः पराजयकरणे सभासमक्षं ५१ पलप्रमाणो मत्स्यः कुण्डप्रान्ते पतिष्यति गुरुर्वति५२ पलप्रमाणो मत्स्यः कुण्डमध्ये पतिष्यति जिनशासनप्रभावात् गुरुवाक्यमेव सञ्जातं राजाऽपि शासनोत्सवं चकार । ततोऽसौ वराहमि- 25 हिरो मानभ्रष्टो मृत्वा व्यंतरीभूतः श्रीसमुपदद्राव, तज्ज्ञात्वा च भगवता
Jain Education International
20
For Private & Personal Use Only
www.jainelibrary.org