________________
श्रीपट्टावलीसारोद्धारः ध्ययश्चक्रे, संवत्१६५८वर्षे पाटणनगरवासिपारिखसहस्रवीरेण पंचसहस्रमहमुदिकाव्ययेन गणानुज्ञानंदिमहोत्सवः कृतः ।।
___ अत्रांतरे पातसाहि श्रीजिहांगिरः श्रीमंडपाचले समाकार्य श्रीजैनधर्मचर्चाश्रवणात् संतुष्टः सन् श्रीसूरीणां"महातपा"बिरुदं दत्तवान , तन्महोत्सवः सा०चंद्रकेन कृतः क्रमेण विहारंकुर्वन् साबलीनगरे सूरिमंत्रा- 5 राधनं कृत्वा च कालांतरे ईडरनगरवासि सा०सहजूकृतमहोत्सवेन संवत्१६८२वर्षे श्रीविजयसिंहसूरि श्रीगुरुः स्थापयामास । तदनु संवत् १६८४वर्षे जालोरनगरे मं०जयमल्लजीकेन श्रीविजयसिंहसूरीणां गणानुज्ञानंदिमहोत्सवश्चक्रे, क्रमेण श्रीउदयपुरे राणाश्रीजगसिंघजीअत्याग्रहात् चातु-. सिकं कृत्वा श्रीगुर्जरदेशे श्रीआचार्यसहिताः श्रीसूरयः समागताः। श्रीशत्रु- 10 जयतीर्थ-यात्रां प्रतिष्ठां च कृत्वा, क्रमेण दक्षिणदेशे बर्हानपुरबीजापुरनगरादिसंघकृतनहोत्सवेन चातुर्मासचतुष्टयं श्रीसूरिः कृतवान् , तदनु संघाप्रहात् श्रीगुर्जरदेशमलंचकार ।
तस्मिन् समये "श्रीविजयसिंहसूरयोपिय मरुदेशादायाताः श्रीहम्मदाबादनगरे श्रीविजयदेवसूरिचरणान्नेमुः क्रमेण भव्यजीवान् प्रति- 15 बोधयंतः श्रीसूरयः स्थंभतीर्थे चातुर्मासकं स्थितबांसः तस्मिन् समये श्रीविजयसिंहसूरिः शरीरबाधावशात् अहमदाबादनगरासन्ननवीनपुरे तस्थिवान् , तस्य च संवत्१६४४वर्षे श्रीमेडतानगरे उकेशज्ञातियसा नथमल्ल-भार्यानायकदेगृहे जन्म । संवत् १६५४ वर्षे दीक्षा, संवत् १६७३ वर्षे वाचकपदं, संवत् १६८२ वर्षे सूरिपन्न अष्टाविंशतिवर्षाणि गुरुसे- 20 वायां, संवत् १७०६ वर्षे आषाढशुदिरदिने स्वर्गगतिः।
तदनु श्रीपरमगुरुः गंधारबंदिरे समेत्य श्रीराजनगरादिसंघाप्रहात् स्वपट्टे श्रीविजयप्रभसूरि संस्थाप्य श्रीसुरतबंदिरे चातुर्मासकं तस्थौ, क्रमेण भव्यजीवान प्रतिबोधयंतः श्रीप्राचार्यसहिताः श्रीगुरुवः सौराष्ट्रदेशसंघा. ग्रहात् श्रीशत्रुजयतीर्थयात्रां कृत्वा श्रीदीवबंदिरासन्नम्नानगरे समेताः 25 तत्र च संवत् १७१३ वर्षे आषाढशुदि११दिने स्वर्ग प्राप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org