SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३८ अनुपूर्ति: १ सूरीन्द्रहीरविजयः प्रतिपद्य पट्ट - लक्ष्मी गुरोरनु विशिष्य पुपोष भूषाम् ॥ वस्तुर्जिनस्य युवराज इवाधिपत्यं क्रान्तारिचक्रमखिलाऽम्बुधिमेखलायाः ॥ मण्डयत्यमरमन्दिरं गुरौ, दीप्यते स्म मुनिवासवो ऽधिकम् ॥ यामिनीप्रियतमे पराम्बुधेर्मध्यभागमिव पद्मिनीपतिः ॥२॥ श्रीहीरसौभाग्यकाव्ये सर्ग -६, लोकौ - १८७ - १८८१ अनुपूर्तिः २ www पट्टावली - समुचयः अथसाहि: (अकबर) मनसा श्रीगुरूनेवं प्रशशंस प्रावीण्यमन्यहितकर्मणि पश्यतैषां तथ्यं यतो व्यवसितिर्महतां परार्था ॥ विश्वं शशीव धवलत्यखिलं कलाभिरंभोभरैर्जलधरोऽपि धरां धिनोति ॥ | १ || 10 मुर्ध्ना दधाति वसुधां भुजगाधिराजो, नैःस्थ्यं निहन्ति मणिरध्वरभागभाजाम् ॥ आमोदयन्ति हरितो हरिचन्दनानि भिन्दन्ति संतमसमंबरकेतवो ऽपि ॥२॥ साला दिशन्ति च फलानि पचेलिमानि वार्धवंशा अपि वहति पयः प्रवाहान् । विश्वोपकारकरणैकनिबद्धक - रेभिर्बभूव वसुधा किमु रत्नगर्भा ? ॥३॥ श्रीहीरसौभाग्यकाव्ये सर्ग - १४, श्लोकाः १८३, १८४,१८५ । 15 अनुपूर्ति: - ३ श्रीसूरिहीरविजये भजति द्युलोकमभ्युद्गते विजयसेनगरणावनीन्द्रे ॥ प्रीतिं जना दधति शीतरुचौ प्रयाते, क्षेत्रांतरं समुदितें ऽशुमतीव कोकाः॥ १ ॥ तत्पट्टोदय भूधरभास्वान्श्रीविजयदेवसूरीन्द्रः ॥ भजते तपगणराज्यश्रियमुर्वीसार्वभौम इव ॥२॥ सीहगिरेरिव वज्रस्वामी तस्येष पदपयोधिविधुः ॥ श्रीविजयदेवसूरिक्षोणीन्द्रः पर्वतायुः स्यात् ॥३॥ Jain Education International 5 श्रीहीरसौभाग्यकाव्ये सर्ग - १७, श्लोकाः २०८, २०१.२१०, १ ॥ इति समाप्ता परम्परा For Private & Personal Use Only 20 www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy