SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महावीरपट्टपरम्परा प्रातः साधुवृतस्त्वदापणपुरो यो याति सूरीशिता सम्यक्संयमवान्स पूर्वगणिवत्सेव्यस्त्वयाहर्निशम् । स्वप्ने ऽस्वप्नगिरेति यं निजगृहे नीत्वातिभक्त्या प्रभु श्राद्धः कश्चन मण्डपाद्रिवसतिर्भेजे सगोत्रैः समम् ॥१३६॥ तमः स्तोमप्राये कुनयनगणैर्दारुणतमे कलौ श्रीसूरीन्दुः शरणमभद्यो जनिमताम् मृगारातिव्यालद्विरदशवरव्यूहबहुले गिरेर्दुःसंचारे गहन इव सार्थः पथिजुषाम् ॥१३७॥ गभीरिम्णा पाथोनिधिरिव महिम्नापरमरुदूगिरिश्चेतोजन्मप्रतिभटतया वा गगनजित् । प्रसारै रश्मीनां सरसिरुहिणीनामिव पति: पवित्रीचक्रे यो वितिभिरशेषा अपि दिशः ॥ १३८ ॥ यो दक्षिणावर्त इव स्रवन्तीपतिलवे कम्बुकदम्बकेन । वाचंयमानां निवहेन पृथ्वीपीठे परीतो विजहार सूरिः ॥१३६॥ भागीरथीव यद्ब्राह्मी पुनीते भुवनत्रयम् । परं विशेषः कोऽप्यस्या निम्नगा न कदाचन ॥१४०॥ ये कर्णाभरणीबभूवुरनिशं विश्वत्रयीजन्मिनां । सान्द्रोनिद्रितचंद्रिका इव शुचीचक्रुत्रिलोकीमपि । यान्संस्तोतुमिवाभवद्भुजगराट् जिह्वासहद्वयस्तेषां सूरिपुरंदरः स समप्भूदे को गुणानां निधिः ॥ १४१ ॥ १३५ Jain Education International For Private & Personal Use Only 5 10 १३६ - हे वत्स, त्वं तु दुर्वादिव्रातविविधविरुद्ध लपनाकर्णनाकलितानेककल्पनाजनितसंशीतिव्याकुलीकृतनै कलोककलियुगानुभावात्कमतिरति । तथापि प्रातः प्रभाते यामानन्तरमष्टभिः साधुभिः श्रमणैः परिकलितः यः सूरीशिता सुरीन्द्रः स्वदापणस्य तव हट्टस्य पुरोऽग्र े याति गच्छति, स सूरिरस्मिन् कलियुगे सम्यक् संयमवान् । विशुद्ध चारित्रकलितः तथः भवताहर्निशं निरन्तर पूर्वगणिवत् प्राचीनाचार्य इस सेन्य उपासनीय: । इति तद्वृत्तौ । 15 20 www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy