SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महावीरपट्टपरम्परा १३३ क्षाम्यन्तं गदिताखिलव्यक्तिकरं संबोध्य योऽदीक्षय त्स श्रीमानथ सोमसुन्दरगुरुर्भेजे तदीयं पदं ॥१२३॥ पट्टश्रियास्य मुनिसुन्दरसूरिशके संप्राप्तया कुवलयप्रतिबोधदक्षे। कान्तेव पद्मसुहृदः शरदिन्दुबिम्बे प्रीतिः परा व्यरचिलोचनयोंर्जनानाम्॥१२४॥ योगिनीजनितमार्युपप्लवं येन शांतिकरसंस्तवादिह । वर्षणादिव तपतुतप्तयो नीरवाहनिवहेन जघ्निरे ॥१२॥ बाल्येऽपि रश्मीन्सरसीजबन्धुरिवावधानानि वहन्सहसम् । अष्टोत्तरं वर्तुलिकानिनादशतं स्म वेवेक्ति धियां निधिर्यः ॥१२६॥ अलम्भि याम्यां दिशि येन काली सरस्वतीदं बिरुदं बुधेभ्यः । रवेरुदीच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र चित्रम् ॥१२७॥ 10 सूरेस्ततोऽजायत रत्नशेखरः श्रीपुण्डरीको वृपभध्वजादिव। बाम्बीति नाम्ना द्विजपुङ्गवेन न्यगादि यो बालसरस्वतीति । १२८॥ लक्ष्मीसागरसूरिशीतमहसा लक्ष्मीरवापे ततो दीपेनेव गुणोदयं कलयता ज्योतिवृहद्भानुतः । गायन्तीः सुरसुन्दरीगुणगणान्यस्याष्टदिक्सङ्गिनीविज्ञायाष्ट विनिर्ममे किमु विधिः श्रोतु श्रुतीरात्मनः ॥१२६॥ सुमति साधुरभूदथ तत्पदे त्रिजगतीजननेत्रसुधाञ्जनम् । समकुचत्त्रपया हृदि यगिरां मधुरिमाधरिता किमु गोस्तनी ॥१३०॥ ___ १२६-यो मुनिसुन्दरसूरि ल्येऽपि शैशवे तुल्लकत्वेऽपि अष्टाभिरधिकं वर्तुलिकानां कच्चोलिकानां 'वाटका कञ्चोली' इति प्रसिद्धानां निनादानां शब्दानां शतं क्वचित्सहस्रमपि वेवेक्ति पृथक् पृथक् कृत्वा कथयति स । पसनसमामतैरभुक्त देशोपेतपण्डितद्विजं पत्रावलम्बनं विधाय प्रतिपत्तनपण्डितस्थानं जलभृतकुण्डलक तृणपुलकं च स्वशिष्यैर्मोचयन्तं तच्छिष्यनिर्घाटनपूर्वकं मुनिसुन्दरशिशुना राजसभायां सेन सार्ध समागतचतुरशीतिपौषधशालासत्काचार्य वर्वादेजायमाने पश्मास्यन्ते राजकथकनपूर्व स्वादृष्टाष्टोत्तरशतवतुलिकानां पृथक पृथक् शब्दान् कवयित्वा तं विजिग्ये । इति तवृत्ती ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy