________________
अनुपूर्ति:-२
श्रीतपगच्छ पट्टाकलीसूच कृत्यानुसंधानम्
(कर्ता- उपाध्यायमेघविजयगणिः )
ऐं श्रीवीतरागाय नमः । अथ प्राक्तनपट्टावलीसूत्रान्तसंहितगाथात्रयव्याख्या यथा
श्रीविजयसेणसूरी, पट्टे गुणसहिमे सुगुणसिठे ।
वाए साहिसहाए, जेण हविओ स जिणधम्मो ॥१॥२१॥ सिरित्ति । श्रीमजगद्गुरुबिरुदधारिमहाराजाधिराजपातिसाहिश्रीअक- 5 ब्बरप्रबोधकारिश्रीहीरविजयसूरिपट्ट एकोनपष्ठितमे श्रीविजयसेनसूरिभगवान् जज्ञे। किं विशिष्टः ? सुगुणैः श्रेष्ठः--गुणाः स्वभावजा ज्ञानादयो विभावजा औदार्यादयस्तैरतिशयेन प्रशस्यो वर्णनीयः । येन स्वामिना वादे उपस्थिते श्रीसाहिसभायां स जगत्प्रसिद्धो जिनधर्मः अर्हतां शासनं स्थापित प्रामाणिकयुक्त्या साधितः । इत्यनेनास्य भगवतः पाण्डित्यातिशयो ध्वन्यते । 10
तस्य च प्रमोविक्रमात् सं०१६०४वर्षे नारदपुर्या वृद्धोपकेशशाखीयधोषागारभृत् सा० कमा तद्भार्या कोडीमा तयो हे जन्म । सं० १६१३ वर्षे मात्रा पित्रा च पह श्रीविजयदानसूरिहस्ते श्रीहीरविजयसूरिनिश्रया दीक्षा । सं० १६२६ पंन्या 'पदं, सं० १६२८ वर्षे फाल्गुणसितसप्तम्यां श्रीअहम्मदावादनगरे उपाध्यायपद रानपूर्वं आचार्यपद, सं० १६५२ वर्षे भाद्रसितैकादश्यां 15 तिथौ भट्टारकपदम् । रो च श्रीगुरवो भट्टारकत्वं विंशतिवर्षाणि प्रपाल्य श्री स्तम्भतीर्थ सं० १६७१ वर्षे ज्येष्ठशुक्लैकादश्यां स्वर्गमलंचक्रुः । एतच्चरितं विस्तरतो विजयप्रशस्तिकाव्याद्यम् । किंचिल्लिख्यते--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org