________________
‘भत्राधिरान-चिंतामणि
यस्य च रोगिणो दोषिणो वा गात्रभंगे जाते तस्मिन्ने तन्न प्रयुज्यते प्रयोगेऽपि गुणोऽनैकांतिक इत्यादेशः ।
३२२
यस्य रोगिणो दोषिणो वा आयुः प्राचुर्यसद्भावेन रोगो दोषो वा साध्यः स्यात् तस्य सम्यग् विधिनैतत् प्रयोगे सद्यो गुणः स्यादग्रतः । पुनरेतत् प्रयोगे च शनैः शनैः गुणो वर्धते । अपरस्य तु सकृद्गुणः समाधानादिः स्यात् । परं न वर्धते नापि च स्थिरः स्यादिति रोगा (ग) दोषयोः साध्यतायुः सद्भावपरिज्ञानोपायोऽपि ।
यस्य च सम्यग् विधिना सर्वप्रकारैरेतत् प्रयोगेऽपि गुणो न जातस्तस्य प्रायोऽन्यस्तोत्रमंत्रयंत्रादिभिर्बहुभिरपि प्रयुक्तैः सुदुर्लभः ।
एतस्य संप्रत्यत्र विषये सर्वोत्कृष्टमहिमात्वादित्य साध्यता प्रत्ययः । दोषे ध्रुवो गुणः संपूर्णेाऽपि च । रोगे तु नैकांतिकः । सर्व इति विधिः प्रयत्नसाध्यो चेति ।
यत्र चास्य प्रणेता स्मरणपरश्वतिष्ठति कियत् समयं स्थितो वा स्यात् । तत्र प्रायो दैवतं मरकमांद्यं नोत्पद्यते । मिथ्यात्वादिदेवताद्यर्चनैः, तदर्थहिंसाकरणैः तत्स्तोत्रगुणनेः तत्वज्ञादिभिस्तु कदाचिदुत्पद्यते तदापि सुसाधं स्यात् । सुखेन च प्रतीकारो लगतीत्यर्थः । अन्यत्र त्यसकृदुत्पद्य (ते) चेति । दुर्वारं दुःसाधं च स्यादिति । पट्टिकाकांस्यभाजनादौ लिखित्वा पूजादिना शुभफलं स्यात् ।
कदाचित् कोप्येतान् मंत्रान् कथमपि ज्ञात्वा जपति न तु स्तोत्रं तस्य तथा न गुणो यथा स्तोत्रजापेन देवतावरकारत्वात् गुणस्येति ।
एतत् गीतेनापि श्रुतेन शाकिनीगृहीतो म्रियते, मुच्यते च । शाकिन्यादि बहुगा नालायादिनेति ।