SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । नरनरपतियुवतिततिदुर्जनधीधन जिघांसुजनतापि । अपदद्विपदचतुः पदमुख्यं सर्वं हि वश्यं स्यात् ॥४८॥ इति वश्ययन्त्रं तृतीयम् ॥३॥ भाले तँ स्कन्धे तँ अंसे ए स्वान्तरों च यौ भुवनगः कुः । कुक्षौ टो जानुनि हुः पादे नाभिगोऽस्य भवति क्षः ॥ ४९ ॥ हीलिङ्गे पादयोयों जानुनि कुक्षिगो भवेद् द्विहः । ܬ मायाभुजान्तरे हों हा कुचयोर्विद्धि ऐं शिरसि ।। ५० ।। साधकयोगे निपुणो हरिहरिदुत्क्षिप्तरुद्रनयनयुगः । अपरार्धे वज्रासनविहितास्थः शङ्खमुद्रया कलितः चण्डद्युतावुदयति ज्वलने तत्वे समुद्यते नितराम् । मध्यमया कृतजापः साध्यं पीतप्रभं पश्यन् २७९ गर्भव्याधिविबाधादुर्जनवादीन्द्रचोरदहनानाम् । निजपरचक्रजला हिप्रभृतीनां स्तम्भनं कुरुते ॥५१॥ ॥५२॥ पीतप्रभमवनीतलमभितः पश्यन् हरिद्रया युतया । कुङ्कमगोरोचनया लिखितं विजपंश्च हुंशब्दम् । पीतैः कुसुमैरष्टखखेन्दुमितैरर्चयत्यनिशम् । यन्त्रमिदं यो योगी तस्यारीन् स्तम्भयेत् स जिन: ॥५४॥ कालसरीसृपरसनाप्रायान् दधतो हि तांश्च करवालान् । स्तम्भयति स्तम्भनकावतारपूर्जिन पतिस्तस्य ॥५३॥ ॥५५॥ ॥५६॥ इति स्तम्भनयन्त्रं चतुर्थम् ||४||
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy