________________
सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः ।
प्रातः पवित्रवसनो दीपनयोगेन पङ्कजासनकृत् । पूर्वाभिमुखः शुक्लध्यानयुतो बाधसंयुक्तः ॥२९॥ हिमरुचिमञ्जनसङ्गतहंसौ विस्फूर्जदग्निजलतत्त्वे । शरदि प्रसन्नवदनो ह्यङ्गुष्ठेन प्रचालयेन्मालाम् ॥३०॥ कुङ्कुमचन्दनचन्द्रैः सुवर्णकुशलेखिनीभिरभिलिख्य । यन्त्रं पवित्रपात्रेऽष्टरवेन्दु १०८ कुसुमैः सितैर्जप्तम् ॥३१॥ पूर्वोक्तं योऽर्चयति च नित्यं शान्ति करोति वामेयः । तस्य गृहे दुरितालो शाम्यति शरदीव धनमाला ॥ ३२ ॥ शमयति दुरितश्रेणिं दमयत्यरिसन्ततिं सततमसौ । पुष्णाति भाग्यनिचयं मुष्णाति व्याधिसम्बाधाम् ॥३३॥
शान्तिकयन्त्रम् । ड्रामलके ए स्कन्धे हा स्कन्धे फु भुजे तु कुक्षावों । हूं कटीतटगतः टो जानुनि वामपादे हैं। ॥३४॥ क्षौ नाभौ वा लिङ्गे ए पादे दक्षिणे यः फुः । जानुनि ही कटि कः कुक्षौ ह्रीं टः करयुगे योज्यः ॥३५॥ ह्रीं शिरशि यन्त्रमिदं प्रवालमुद्रोऽथ कुक्कुटासनकृत् । वायव्य कोणवदनो मध्यान्हे हुं त्विति प्रयुञ्जानः ॥३६॥ प्रावृट्काले श्वसने तिग्मद्युतिनाडिकां समाश्रयति ।। निश्चलचेताः पवनगतत्त्वेऽसौ तर्जनीजापः ॥३७॥ घनसारघुसृणधूर कसुगन्धधलीभिरेभिरभिलिख्य । कनकतरोर्लेखिन्या पात्रे जातीसुमैर्मषीमित्रैः ॥३८॥