SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराज कल्पः । ॥ ११ ॥ ॥ १२ ॥ बोध- प्रवाल सहिताः षडमूर्हि मुद्रा विद्रावणाय दुरितस्य सदा विदध्यात् बद्ध्वा वामभुजस्य तु मुष्टिं बद्ध्वा तु तर्जनीचकम् । सन्दर्शयेदमुष्य तु मुद्राऽसावङ्कुशाख्येति यन्मणिबन्धे पाणी सरल - प्रसृताङ्गुली बतौर्ध्वमुखौ । कुर्याद् यन्त्रस्याग्रे विधिविज्ञः कमलमुद्रेति ॥ १३ ॥ दक्षिणभुजेन वामा वामभुजेनापि दक्षिणा युगपत् । प्रसृताङ्गलिना ग्राह्या कलाचिका वज्रमुद्रेति क्षिप्त्वाङ्गष्टो मध्ये मीलितसरलाङ्गुलीत्रयो यत्र | चक्रिततर्जनिकावथ भुजौ विदध्यात् तु शङ्खमुद्रा सा चक्रकनिष्ठानामा न्यस्ताङ्गष्टयोर्यदिह भुजयोः । सरलचले तर्जनिकामध्यमिके स्तः प्रवालमुद्रेति तिस्रोऽङ्गलीस्तु सरलास्तर्जन्यङ्गष्टकौ च सम्मिलितौ । कुर्याद् यत्र प्रवचनबोधाख्या ज्ञानमुद्रा सा ॥ १४ ॥ ॥ १६ ॥ २७५ स्तम्भद्वेषाकर्षणपोषणशान्त्या दिवश्यमृतिकर्म । पूर्वादिकदिग्वदनः सुधीर्विदध्यात् सदा सर्वम् ॥१५॥ ॥ १७ ॥ इति मुद्राः । दृषत् प्रवालाम्बुज हेमपत्र जीवस्रजोऽङ्गष्ठमुखाङ्गलीभिः । मोक्षेऽभिचारे शमने वशे च आकर्षणे कर्मणि चालयेद्धि ॥१८॥ इति स्रजः । ॥ १९ ॥ इति दिशः । उच्चाटनद्वेषणमारणानि चण्डद्युतौ वायुरवतैजसस्थे । शान्ति च पुष्टिं वशतां विबोधं चन्द्रे जलोर्वीप्रवहे विदद्यात् ॥ २० ॥ इति नाडि ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy