________________
२५१
सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । अथ योजितकरकमलो मन्त्राधिपतिर्जिनापती ध्येयः । कमठो यन्त्रद्वारे कृतस्थितिरपाल इव ॥ १२३ ।। अरुणरुचिः शुचिमहीरुहहारिश्च विहितपीनकोपीनः । उच्छिखपावककोलापिङ्गलकुन्तलजटाजूटः ॥ १२४ ॥ उन्नतललाटपट्टप्रकटितभृकुटी कठोरकृतदृष्टे ! । विहितविकटाट्टहासत्रासितजगतीत्रितयसत्व ! ॥ १२५ ॥ तर्जितसघनघनाघनगर्जितहुंकारस्यवधिकराल । जिनपतिसकरुणवाचः श्रवणोत्पन्नासमदयासुलय । ॥ १२६ ।। जय कमठदुरितसन्ततिगजपतिभेनमृगपतितनूज। अहिपतिफणगणभूषण! जिनवरचरणाम्बुरुहपुष्पलिह ॥ १२७॥
कलापकम् । विगतमदैर्यशनावशतः सुगति विना वरचरणतपोभिः । सरसफला चमरकुलाविव शरणं कमठ ! जिनचरणौ ॥ १२८ ॥
इति कमठः॥ मन्त्राधिराजसजीविहितातिशयः सदाशयो जयति । श्रीपद्मदेवसूरिविख्यातो देवरिमूरिव ॥ १२९॥ प्रोद्यन्मार्तण्डबिम्बप्रतिमरुचिभरस्यास्य यन्त्रस्य विष्वक
सर्वज्ञालोसुरेन्द्रासुरसुरयुवतीयक्षयक्षाङ्गनानाम् । सन्दोहैः सेवितस्य त्रिदशगिरिवनस्यावकासो वनाली
नीलाभा भाति भूयो विबुधजनकृतानन्दकन्दप्रभेदाः ॥१३०॥ इति मन्त्राधिराजयन्त्रोद्धारस्तृतीयः पटलः । पं० २१२ ।।