________________
२३४
श्रीजैनस्तोत्र सन्दोहे [ श्रीसागरचन्द्र
श्रीअश्वसेनतनयं विनयावनम्रदेवेन्द्रमौलिमणिरञ्जितपादपद्मम् ।
द्वयं सालिकद्विभुज सन्धिगुदान्तकोणषट्कोणयन्त्रगतमादरतो नमामि ॥ ११ ॥
पाषाणदुर्विषशरेभरिपुप्रहार
मोघाम्बुबाहकरकाशनिसन्निभैस्तु ।
वाक्यैर्जघान शमिनं जनमाप्य तस्मा
च्छान्ति विवश कमठः शठतोज्झितोऽयम् ॥ १२ ॥
श्रीस्तम्भने परमतो.... कृतावतारं
वामासुतः परिगतोऽभयदेवसूरिः ।
कुलकम् ।
कुष्टं पिनष्टि गलदङ्गमसौ स्म तस्माद्
वृत्तिं चकार गुरुरेष यतो नवाड्याः ॥ १३ ॥ श्रीपद्मदेवसु गुरोस्तपसोत्तमस्य
विस्फूर्तयोऽद्भुततमा हि यतो बभूवुः । यस्याक्षराणि तुरगावनिसम्मितानि
काष्ठौषधीपतिमितानि वदन्ति चान्ये ॥ १४ ॥
यस्माद् भवन्ति भविनां भुवि सिद्धयोऽष्टौ
कष्टं विनश्यति समस्तपमीह यस्मात् । तन्मन्त्रवर्णनिचयं स्थितिवर्णकर्म
भेदैर्भणाम्यहमिहात्महिताय बालः ॥ १५ ॥
कलापकम् ॥