________________
श्रीजनस्तोत्रसन्दोहे (श्रीसागरबन्द्र
www
द्वितीयः पटलः। मन्त्राधिराजवलयेषु यथास्थितानि
__ वक्ष्यामि सप्तसु यथाक्रममक्षराणि । आधे जिनेन्द्रवलयेऽत्र विधि तु मन्त्र
वर्णक्रमेण सहितं तु हिताय वच्मि ॥१॥ आदौ जिनेन्द्रवपुरद्भुतमन्त्रयन्त्रा
हानासनानि सकलीकरणं तु मुद्राम् । पूजां जपं तदनु होमविधिं घडेव ___ कर्माणि संस्तुतिमहं सकलं भणामि ॥२॥
द्वारकाव्यम् । आद्यावनीतलसरोवरहाटकाद्रि
मालोद्भवाष्टहरिदम्यूदलासनस्थम् । चन्द्राभचीवरजयाविजयागृहीत
गङ्गोदकप्रवरचामरवीज्यमानम् ॥ ३ ॥ एरावतप्रमितकुम्भिकृताभिषेकं
छत्रत्रयो प्रथजगत्रयनायकत्वम् । पर्यशायिवपुष सुखसिन्धुमग्नं
नाशानिवेशपरिपेशलदृष्टियुग्मम् ॥४॥ बालप्रवालकदलीदलकान्तकान्ति
क्षाराब्धिमध्यवसुधातलतुल्यदेहम् । दुर्लक्ष्ययोगकलया परया परीतं
पञ्चेन्द्रियप्रसररोधकुबोधशुद्धम् ॥ ५ ॥