________________
सूरिविरचितम् ] श्रीपार्श्वनाथस्तवनम् ।
संक्षिप्तशोक ! मलयाद्विजशीतवाक्यं
विस्तार्यशोकमलपन्तमवद्यवाचम् ।
3
मात्रोल्लसत्कमलसंसृतिकल्पवृक्षं
सत्पुण्यतोऽकमलवद्भिरनाप्यमीडे ॥ १० ॥
मानाशोक ! मलमुक्त ! परित्यजन्तं संस्तौम्यभीकमलयुक्वनिताङ्गरङ्गम् ।
१०
क्षिप्तार्यनीक मलघुप्रशमोपसेव्यं
त्वां मात्रिकाधिकमलं श्रयतां दविष्टम् ॥ ११ ॥
सम्भूषितान्तकमलर्कसमं धनाप्तौ
१२
त्यक्त्वातुलांशुकमलज्जमपीश ! रम्यम् ।
२१६.
93
सत्सेवितान्तिक ! मलव्रजदत्तदुःखं
१४
श्रेयोलतासु कमलं किल मात्रयाढ्यम् ॥ १२ ॥
टिप्पनम् ।
१ चन्दन० । २ विस्तारवान् अशोकवृक्षो यस्य । ३ मरुदेश ० ।४ पापमलयुक्तैः । ५ मानसर्पदर्पदलने वञ्जुलवृक्ष ! । ६ कलङ्कमुक्त ! | ७ निर्भयं विष्ठायुक्तं च ललनायाः अंगरङ्गं परित्यजन्तम् । ८ विध्वस्तशत्रुसैन्यम् ।९ मात्रयाधिकमलशब्द माल-कपटम् । १० भूषितान्वयम् । ११ श्वेतार्क समम् । १२ कदर्यम् । १३ पापौघ० । १४ मात्रयाधिकं कमलमिति कामलं - वसन्तम् ।