SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् । . २१७ - 3 १० [६१] श्रीहेमविमलरिप्रणीतं पतिपदं कमलशब्दश्लेषमयं श्रीपार्श्वजिनस्तवनम् । श्रीनिर्वृतिकमलदृशः करकमलक्रीडनैककलहंसम् । प्रणतापूरितकमलं प्रातःसमये सुदृष्टमुखकमलम् ॥ १॥ जिनपं सश्रीकमलं सुरनायकसेव्यमानपदकमलम् । प्रतिपादं कमलपदैः पृथगर्थैः स्तौमि बरकमलम् ॥ २ ॥ अक्षीणलक्ष्मीकमलङ्घनीयवाचं भवामे कमलप्रधानम् । दीनोल्लसत्शूकमलब्धदोषं पङ्कप्रणाशे कमलस्वभावम् ॥३॥ युगादिनाथं कमलाङ्कवक्त्रं गीतप्रतापं कमलाननाभिः । संसारदुष्टाऽकमलप्रमुक्तं स्तवीमि निःशङ्कमलास्यरङ्गम् ॥ ४॥ अनन्तसंवित्कमलं भजे विमुं स्वपाणिदीप्त्या कमलापलापिनम् । अघाल्पचित्तं कमलाविलासतो नश्यत्तमःशोकमलक्ष्मविग्रहम् ॥ टिप्पनम् । १. मुक्तिस्त्रियः । २ हस्ताम्बुजः । ३ कमला-श्रीः । ४ मुखपद्मम् । ५ अलम् -अत्यर्थम् । ६ चरणपङ्कजम् । ७ प्रधामशोभम् । ८ भवनीय. इति पदच्छेदः । ९ भवरोगे प्रधामौषधम् । १० शुकःदया । ११ जळ० । १२ मृगाङ्क० । १३ बीभिः । १४ पापमलेग मुकम् । १५ लास्यम्-नृत्यम् । १६ कं-सुख मलति-धरतीति कमलम् । १७ ताम्र० । १८ वराङ्गना० । १९ अलक्ष्मविप्रह-नि:कलकायस् । १२ १५
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy