SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २१४. श्रीजैनस्तोत्रसन्दोहे [ अज्ञात स्वामिन्ननार्यविषयेषु सजन् विहार-- माशातितस्त्वमसि जाड्यमयेन येन । संसारवारिनिलयेऽजनि दुःखरूपं तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ।। ३२ ।। वैविमुक्तवति देव ! तदैव वैरं यत्त्वय्यपि प्रतिपदं दृढमूढबुद्धिः । चक्रेऽतिवक्रहृदयः कमठः प्रहारं सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ तत्त्वोदकं त्वमुदितं प्रकटीचिकीर्षुः सत्वोपकारकरणाय भवोदपाने । प्रादुर्बभूव धुरि यत्पुरुषोत्तमस्य . पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३४ ॥ त्वत्साग्रयोजनशते वसते जनाय मारीतिभीप्रभृतयः प्रभवः कथं स्युः ? । यज्जाग्रतः खगपतेरपि पश्य तस्य किं वा विपद्विषधरी सविघं समेति ? ॥ ३५॥ आशातना विदधिरे विविधा बृहत्यो हत्या इव त्वयि मया विधिदुर्विधेन । तन्नारकादिकभवोद्भववेदनानां जातो निकेतनमहं मथिताशयानाम् ।। ३६ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy