________________
मुंनिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् ।
नमस्ते विभो ! सर्वविधामयाय नमस्तेऽङ्गिसल्लब्दिलीलालयाय । नमस्तेऽसमश्रेष्ठदेवेश्वराय नमस्ते नमस्ते नमस्ते नमस्ते ॥९॥ जय त्वं जगनेत्रपीयूषपात्र ! जय त्वं सुधांशुप्रभागौरंगात्र । जय त्वं सदा मन्मनःस्थायिमुद्र ! जय त्वं जय त्वं जय त्वं जिनेन्द्र!॥१०॥ इत्थं स्वल्पधियापि भक्त(क्ति)जनितोत्साहान्मया संस्तुतः
श्रीशद्धेश्वरपार्श्वनाथ ! नतसद्भक्तकचिन्तामणे!। सर्वोत्कृष्टपदप्रदानरसिकं सर्वार्थसंसाधकं
तन्मे देहि जिनाङ्घ्रिपद्मविमलश्रीहंसरत्नायितम् ।।११॥
[२४] श्रीहंसरत्नमुनिविनिर्मित श्रीशङ्केश्वरपार्श्वनाथच्छन्दः ।
आर्यासकलसुरासुरवन्धं हृद्यगुणं जगदनिन्द्यमहिमानम् । श्रीशङ्केश्वरपुरवरमण्डनमभिनौमि पार्धजिनम् ॥ १ ॥
त्रिभङ्गीच्छन्दःशिवसुखदातारं विश्वाधारं सौम्याकार नेतारं
जितमदनविकारं करुणागारं हतरिपुवारं जेतारम् ।