________________
श्रोजैनस्तोक्सान्दोहे [ श्रीरत्नशेखरसूतिअष्टौ पुण्ड्रस्फुटमणिनिभाद् यो विभर्ति प्रदीपान् ___ स श्रीवामान्मजजिनपतिः पातु नः पङ्कपातात् ॥१५॥ अङ्गान्यष्टौ न जहति हिताभोगयोगस्य येना
कालैकात्म्यार्जितदृढसुहृत्त्वानि मुक्तेऽपि यस्मिन् । अवस्थां यत्प्रतिकृतिमपि प्रेमनिर्बन्धतः किं
पुण्डप्रेकफगमणिमिषात् सैष देवो मुदे कः ॥ १६॥ शास्त्रेऽस्माकं मुनिभिरवमं द्रव्यतो मङ्गलत्वं
ख्यातं तन्नः प्रवितर शुभं भावतस्तत् स्वसंस्थम् । विज्ञप्त्यै ये किमिति समुपेतानि सान्द्राणि भद्रा___ण्यष्टौ पुण्डस्फुटमणिनिभाद् भद्रकृत् सोऽस्तु पार्थः ॥१७॥ नन्द्याद् विद्याधरनरसुरारब्धपादाब्जसेवः
पार्थो देवः फणमणिलसत्पुण्डसङ्क्रान्तियोगात् । दधे मूर्तीनव हितमनाः किं नु सत्वादितत्त्वा__ न्याख्यातुं यः कृतिजनततेर्विस्तरेणैककालम् ॥ १८॥ स्थानुर्यस्य प्रकटमहिमान्यानते काननेऽस्मिन्
श्रीमान् शान्तः प्रविदितरसाधीशिताऽसाधयन्नु । लक्ष्यं पुण्डूच्छलमसिवरं सूर्यहासं द्विभेद
द्वेषिश्रेणीमदभिदमसौ पार्थदेवो मुदे वः ॥ १९ ॥ प्रापत् कोटि लवणिमरमा यस्य सदेहगेहे
तेनासौ कि कनति निहितो रत्नपुण्ड्रच्छलेन । शृङ्गे तस्य प्रसमररुचीश्चीनचीरध्वजः श्री
पावेः शश्वत् स भवतुः भवभ्रान्तिभिद् भावभाजाम् ॥२०॥