________________
विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् ।
हस्ताङ्गुलीषु विन्यस्त वामकरे भूतपञ्चकं सकलम् । अपहरति समस्तविष साधकमुष्टिक्रमाबन्धात् ॥ २८॥ धरणोरगेन्द्रसुरपतिविद्याधरदैत्यदेवताभिनुतम् । जिनगरुडमप्रमेयं चतुर्वर्णविभूषितं स्मरयेत् ॥ २९ ॥ . आजानुकनकगगौरं आनाभेः शङ्खकुन्दहरधवलम् । आकण्ठतो नवदिवाकरकान्तितुल्यमामूर्धतोऽञ्जननिभं
गरुडस्य रूपम् ॥ ३०॥
वृत्तिः । वारुणमण्डलबीज-वकारं पार्थिवबीज-लकारयुक्तम् , वारुणवीजं ह्रींकारेण पुनर्वेष्टितं च पार्थिवबीजाक्षरेण क्षकारेण वेष्टितं, च-पुनः पद्मरूपवारुणमण्डबमध्यस्थं पत्रेषु वारुणबीज-वकारं पद्मसहितं न्यसेत् , तत्परिणाहे आकाशभूताख्यं संवौषट्सहित सबिन्दु ठकारवेष्टितं प्रहशान्ति कुर्यादिति ।
[ अष्टादशं यन्त्रम् १८] एकैकभूते पञ्च पञ्च वर्णा अभिहिसास्ते चैवं रचनाविशेषतः सर्वकर्मकराः ।
माहेन्द्रं वारुणं योज्यं सर्वेषु शुभकर्मसु ।
भाग्नेयं चैव वायम्य मण्डलं दुष्टकर्मसु ॥ कुकुमगोरोचनया चन्दनेन लिखनीयमिति ॥ २८ ॥
घरणोरगेन्द्र०-भो लोका ! यदि विषविघातं कर्तुमीप्सथ ततो जिनगारडं स्मरत । कथम्भूतम् ? 'धरणोरगेन्द्र सुरपतिविद्याधरदैत्यदेवतामिनुतम् ,' भभिनु तम्-प्रणतम् । अप्रमेयं-अतुलम् । वरज्ञानतेजोभिर्वक्यमाणवर्णचतुष्कोपशोभितम् ॥ २९ ॥
आजानु०-यावज्जानुनी तावत् तप्तकनकाभं पीतम् , तस्मामामि यावच्छभ्रम् , तस्मात् कण्ठं यावद् दिवाकरकान्तिवाद रक्कम् , तस्म्पच्छिरो यावत् कृष्णं स्मरयेत त्यतीतार्यायां क्रिया ॥ ३०॥
१ गरुडस्वरूपं° ख।