SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ८. Maava श्रीजैनस्तोत्रसन्दोहे [श्रीशिवनागकमलदलस्थितदिक्पतिमध्ये भुजगावृतं जिनं नत्वा । षोडशदेवी' सहितं बीजाक्षरसंयुतं तद्धि ॥ १८ ॥ वन्ध्यानां सुतजननं म्रियमाणापत्यरक्षणं परमम् । पद्ममिदं रोगहरं ग्रहशाकिनिभूतनिर्माशम् ॥ १९ ॥ वृत्तिः । पूआपुव्वं२ जिणाणं फलयति लिहियं कुंकुमाईहि लोए नासेई ईइदोसं अकमवरिसणं सीयवन्हीण दाहं ॥ [एकादशं यन्त्रम् ११] ॐ नमो भगवते श्रीपार्श्वनाथाय ज्वल ज्वल प्रज्वल प्रज्वल हूं हूं महाग्नि स्तम्भय स्तम्भय हुं फट् स्वाहा । एकविंशतिवारान् जप्तं जलं अमिं स्तम्भयति । ॐ नमो भगवओ पासनाहस्स थंभेउ सव्वाओ ईईओ जिणाण आणाए मा इह अहिहवंतु स्वाहा । अष्टोत्तरशतजापात् ईत्युपशमं करोति । दुष्टराजानं च पुष्पदानेन शमयति ॥ १७ ॥ कम-अस्यामार्यायामशेषयन्त्रख्यापनायात्मनैव यन्त्रमुक्तम् । अष्टसु पद्मदलेषु दिक्पाला४ भिधानानि । पद्ममध्ये भुजगावेष्टितं जिनमिति हुंकारम् । तस्योपरि ब्रह्माणमधस्तानागान् पूर्वोक्तान् भूयो भूयः षोडश पत्रेषु देव्यः ॐ चुरु चुरु बीजैः प्रथमार्योक्तैर्वेष्टयेत् , ततो भूयष्ठकारवेष्टितम् । किलि किलि कल कल बीजर्वेष्टयेत् ततस्त्रिगुणमायया वेष्टयेदिति शेषः ॥१८॥ [ द्वादशं यन्त्रम् १२. ] यन्त्रफलदर्शनायास्य फलं दर्शयति । वन्ध्यानां वन्ध्यानां पुत्रदम् , म्रियमाणापत्यानां प्रधानमपत्यरक्षणम् । एन पद्म-कुवलयं रोगिणां रोगहरम् , बालानां ग्रहशाकिनीभूतोपद्रवनाशकमिदमिति ॥ १९ ॥ १. देव्योपगतम्° ग-घ। २ पूअं° ग । ३ ° सुकय° ख । ४ °दिक्पत्यभि ख।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy