________________
७८
श्रीजनस्तोत्रसन्दोहे
[श्रीशिवनाग
-
उ चुरु चुरु मुरु मुरु फुरु फुर फर फर फार फार फलदस्त्वम् । किलि किलि कलकल कलितैः कलिकुण्ड ! कलाकलापज्ञ ! ॥१५॥
वृत्तिः । पूजाविधानतस्त्वेतद् वृत्तं कल्याणकारकम् । निष्फलं भक्तिहीनस्य जिनपादाम्बुजं यथा ॥ नृपवन्हिपिशाचानां हरितस्करहस्तिनाम् । नाशनं विषदुष्टानां शाकिनीशत्रुमर्दनम् ॥
[अष्टमं यन्त्रम् ८ ] कुङ्कुमगोरोचनाया भूर्यदले कनकलेखिनीलिखितम् । घृतमधुमध्यनियुक्तं व्यर्थकरं शत्रवर्गस्य ॥ हुं फटकारविहीनं गृहनिहतं तत्कुलं क्षयं नयति । विषरुधिरचिताङ्गारैः श्मशानचीवरेऽग्निसन्निहितम् ॥
यन्त्रं मङ्गलदिनेऽमावास्यायां वा ॥ १४ ।। ॐ चुरु चुरु०-हे कलिकुण्ड ! कलानां कलापः कलाकलापः तं जानातीति कलाकलापज्ञः, तस्यामन्त्रणम् । फारादपि फारतरं फलं प्रयच्छतीति फारफारफलदस्त्वम् । भवसीति क्रिया । ॐकारपूर्वैः चुरु चुरु मुरु मुरु फुरु फुरु फर फर फारफारपदैश्चिन्तामणिकल्पैः किलि किलि कलकलकलितैरेतदुपलक्षितैरिति ।
चतुरष्टषोडशदलं जिनबीजकलाभिरावृतं कमलम् । अपहरति समस्तविषं न्यस्तं कुम्भे करे दण्डे ॥ कुङ्कुमगोरोचनया लिखितमिदं दुष्टपिटकलूताख्यान् । ज्वालागर्दभशाकिनीविस्फोटकसङ्घाश्च नाशयति ॥ १५ ॥
[ नवमं यन्त्रम् ९ ]