SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ .विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । निर्मथितभवभयोल्वण ! षोडशविद्याधिपत्वमुपपन्न ! । श्रीपार्श्वनाथ ! विषहर ! हिलि हिलि मातङ्गिनी स्वाहा ॥ ८ ॥ ॐ हर हर हुतभुपवनेरितज्वलितमङ्कुशं ध्यायेत् । उत्थापयति सरोषं पुनरुक्तैर्भोगहस्तोऽयम् ॥ ९॥ आगच्छन्तु महानागाः पन्नगाश्च महाविषाः । गरुडस्येनां विद्यां हिलि हिलि मातङ्गिनो स्वाहा ॥ १०॥ - वृत्तिः । निर्मथिता निर्मथितं भवभयं उल्वणं-अधिकं येन सः, तस्यामन्त्रणम् । षोडशविद्याधिपत्वमुपपन्नं-प्राप्तं येन सः तथा, तस्यामन्त्रणम् । हे श्रीपार्श्वनाथ ! हिलिहिलि मातङ्गिनी स्वाहा प्रयोगेण विषं हरति यः स तथा, तस्यामन्त्रणं क्रियते । हे विषहर ! प्राणिनां जरामरणविषहर इत्यध्याहार्यम् ॥ ८ ॥ सूचितं परमं तत्त्वं पवित्रं यन्त्रमुत्तमम् । साधनं तस्य पुण्येऽन्हि क्रियते स्वामिनोऽप्रतः ॥ श्वेतवस्त्रः शुचिर्भत्वा सितपुष्पविलेपनैः । समभ्यर्च्य जिनं पार्श्व बलिं कुर्यात स्वशक्तितः ॥ आत्मरक्षां ततः कृत्वा परमेष्ठिस्तवाक्षरैः। 'नाभ्यास्याक्षिशिरोदिक्षु सोङ्कारैन्यासयोगतः ॥ पार्श्वनाथं पङ्कजान्तस्थमात्रारूपाभिरावृतम् । देवीभिर्यन्त्रमाभिस्तद् द्वयष्टसङ्ख्याभिरंशकैः ।। विद्यां मातङ्गिनीं तस्य विलिखेच्च समन्ततः । अष्टोत्तरसहस्रं तु जातिपुष्पैस्ततो जपेत् ॥ पूजयित्वा ततः साधून भूयः पार्श्व च भक्तितः५ । 1 °नाभ्यास्यहृच्छिरा° ग-घ । २ °यन्त्रमात्राभि° ग । ३ °ततः क्रमात् घ । ४ °पूजयेच्च घ । ५ °श्रीपाश्व भक्तितः° ख ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy