SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीपार्श्वप्रभुस्तोत्रम् । जा हवइ पढमगाहा सा गाहा होइ बिइयठाणम्मि जा पढमा सा बोया एयं पत्तेयसारं च ॥ ६ ॥ सिरिमुणिसमुद्दसुहगुरूसीसेणं रयणकित्तिणा रइयं । भवियाण मंगलकरं संथवणं पासनाहस्स ॥ ७ ॥ [ ८ ] मन्त्राधिराजस्तोत्रम् | श्रीपार्श्वः पातु वो नित्यं जिनः परमशङ्करः । नाथः परमशक्तिश्च शरण्यः सर्वकामदः || १ | सर्वविघ्नहरः स्वामी सर्वसिद्धिप्रदायकः । सर्वसत्वहितो योगी श्रोकरः परमार्थदः || २ || देवदेवः स्वयं सिद्धश्चिदानन्दमयः शिवः । परमात्मा परब्रह्म परमः परमेश्वरः || ३ || जगन्नाथः सुरज्येष्ठो भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च श्रीनिवासः शुभावः ॥ ४ ॥ सर्वज्ञः सर्वदेवेशः सर्वदः सर्वगोत्तमः । सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः ॥ ५ ॥ तत्त्वमूर्तिः परादित्यः परब्रह्मप्रकाशकः । परमेन्दुः परप्राणः परमामृतसिद्धिदः || ६ || ४१
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy