SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] भयहरस्तोत्रम् । खरपवणु अवणदवजालावलिंमिलियसयलदुमगहणे । डझंतमुद्रमयवहुभीसणरवभीसर्णमि वणे ॥ ६ ॥ जगगुरुणो कमजुअलं निव्वावियसयलतिहुअणाभो । जे संभरंति मणुआ न कुणइ जलगो भयं तेसिं ॥ ७ ॥ व्याख्याखरपवनोद्धतवनदवज्वालावलिमिलितसकलद्रुमगहने । दह्यमानमुग्धमृगवधूभीषणरवभीषणे वने ॥ ये मनुजा जगद्गुरोः श्रीपार्श्वनाथस्य क्रमयुग्मम् । निर्वापितसकलत्रिभुवनाभोग यो संस्मरन्ति न करोति ज्वलनो भयं तेषाम् ।। इत्यक्षरार्थः । वृद्धसम्प्रदायश्चात्र-- प्रथममाग्नेयमण्डलं परिकल्प्य मध्ये श्रीकाराक्षरपूर्व देवदत्तनामालिख्य तदपि च अकाराक्षरैयथेष्टं वेष्टयेत् । उपरि षोडशस्वरैर्वेष्टनीयं, उपरि भागे त्रिगुणमायाबीजमित्येकं यन्त्रम् । द्वादशं यन्त्रम् १२] तथा प्रणवोभयसम्पुटं नामालिख्योपरि मायाबोजेनावेष्टय बहिरष्टपत्रे षोडश स्वराणि दत्वा क्ली इत्यक्षरः सर्व सर्वतो वेष्टयिस्वा ठकारेण वेष्टनीयम् । उपरि निरन्तरं ब्लू इत्यक्षरं सर्वतो दापयेत् । ईकारेणोर्च वेष्टयित्वा माहेन्द्रमण्डले स्थापनीयम् । [ त्रयोदशं यन्त्रम् १३ ] ___इति यन्त्रद्वयं कुड्डमादिद्रव्यैरालिख्य बाहौ धारणीयं प्रदीपनादिभयं रक्षति। ॐ ह्रीं क्ली बं ठः ठः स्वाहा । अनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूननीयम् । इदमपि च आकर्षणे आग्नेयमण्डलस्थं ताम्नभाजने कुनट्या लिखेत् । वैश्वानरेण तापयेत् । आग्नेयध्यानेन सप्तरात्रेण आकर्षयति ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy