SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्री जैनस्तोत्रसन्दोहे [श्रीमानतुङ्ग [२] श्रोमानतुङ्गमूरिप्रणीतं 'नमिऊणा' पराभिधानं भयहरस्तोत्रम् । नमिऊण पणयसुरगणचूडामणिकिरणरंजिअं मुणिणो । चलणजुअलं महाभयपणासणं संथवं वुच्छं ॥१॥ वृत्तिः । सिद्धार्थपार्थिवसुतं सिद्धार्थ सिद्धशासनं वीरम् । नला चरमजिनेन्द्रं भयहरवृत्ति भणियामि ॥ १ ॥ 'नमिऊण.' नत्वा चरणयुगलम् । कस्य ? 'मुनेः ' पार्श्वनाथस्य । प्रणतसुरगणचूडामणिकिरणरञ्जितम् । महाभयप्रणाशनं संस्तषं वक्ष्ये । इत्यक्षरार्थः ।। सम्प्रदायः प्रोच्यते हुंकारे देवदत्तनामालिख्य बहिरष्टाम्बुजं विधेयम् , दलेषु ॐ श्री पार्श्वनाथाय स्वाहा प्रत्येकं संलिखेत् , बाह्ये षोडशस्वरैर्वष्टयेत् । ___ इदं चक्रं कुङ्कुमगोरोचनादिसुरभिद्रव्यैर्भूर्यपत्रेषु शुभेऽहि संलिख्य कुमारीसूत्रेणावेष्टय सहस्रवारजापः, त्रिकोणकुण्डे होमः क्रियते, सहन १२, तहिने उपोषणः क्रियते । तद्दिने दानादिकं दीयते । श्रीपार्श्वनाथविम्बे पूजा । पश्चात् शुभदिने बाहौ धारणीयम् । महाभयहरं भवति । । पूजाविधिःसोपारी १२,मुद्रा १,आच्छादन वन पुष्पादि। [आद्यं यन्त्रमिदम्॥१॥] पुनः द्वासप्ततिशतं यन्त्रं प्रारभ्यते चतुःस्थाने अजित-शान्ति-पाच-वर्द्धमानाः । ॐ रोहिण्यादिषोडश विद्यादेवी, मध्यकोष्ठके क्षिप ॐ स्वाहा इति, वर्णरुपरि च १वोच्छं क-पाठः।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy