________________
श्रीजैनस्तोत्रसन्दोहे [श्रीभद्र बाहु__यन्त्रं सूच्यते । अस्य भावमाह-हीनामगर्भितस्य पहिरष्टदलेषु ही ब्लू ह्रीं ४ देवदत्तं ४ दातम्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यैर्यपत्रे संलिख्य नारीबाहो धारणीयम् । वन्ध्या गुर्विणी भवति, मृतबत्सा गर्भ धारयति, काकवन्ध्या प्रसवति, सर्वभूतपिशाचरक्षा (च)भवति(1) । वंकारनामगर्भितस्य बाह्ये षोडश स्वरान् वेष्टयेत् । ॐ हाँ ह्रीं चामुण्डे! स्वाहा । आवेष्टय बाह्ये बलं २ पूरयेत् । एतद् यन्त्रं तु कुछमादिसुगन्ध. द्रव्येः भूर्जपत्रे संलिख्य बाहौ धारणीयम् । बालग्रहरक्षा भवति(२)। माया बीजत्रिगुणं नामगर्भितस्य बहिरष्टदलेषु ह्रीं दे इत्यादि दातव्यम् । एतद् यन्त्रं भूर्जे कुङ्कुमगोरोचनया आलिख्य स्त्रीपुरुषबाहौ धारणीयम् । सौभाग्यं भवति(३) । वकार नामगर्भितस्य बहिश्चतुर्दलेषु वंकार दातव्यम् । बहिरष्टपत्रेषु रकार दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य(ते)क्षुद्रोपद्रवोपसर्गदोषा' उपशाम्यन्ति । आ(वै?)रोटयानामविद्या(४)। ह्रींनामगर्भितस्य बहिरष्टपत्रेषु देयं हमव्यू ह्रीं दातव्यम् । एतद् यन्त्रं गोरोच. नया भूर्जपत्रे संलिख्य कण्ठे हस्ते वा बद्ध्वा चौरभयं न भवति (५)। अघोरा नाम विद्या । ह्रींकारनामगरेभिंतस्य बहिरष्टदलेषु मायाबीजं दातम्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहो धारणीयम् । मौभाग्यं भवति (६)। मायागर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सर्वजनप्रियो भवति (७) । मायानामगर्मितस्य बहिरष्टपत्रेषु रकार दातव्यम् । एतद् यन्त्र कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य(ते) बालानां शान्तिपुष्टिकरी रक्षा भवति(८)। मायाबीजं नामगर्भितत्रिगुणं (सं)वेष्टय बहिरष्टपत्रेषु ह्रींकारं दातन्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे आलिख्य कण्ठबाहुभ्यां धारयेत् । आयुषः अपश्रितज्वरभूतपिशाचस्कन्दोपस्मारप्रहगृहीतस्य बन्धे तत्क्षणादेव शुभं भवति(९) । ह्रां ह्रीं श्रीं ह्रीं श्रीं ह्रीं नामगर्भितस्य बाह्ये षोडशपत्रेषु ह्रीं श्रीं ठकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य(ते) दुर्भगनारीणां सौभाग्यं करोति (१०) ॥ ३ ॥
१ 'उपशमयन्ति' इति ख-पाठः । २ 'विदर्भितस्य' इति ख-पाठः ।