________________
( २४० )
जैनस्तोत्रसन्दोहे
[ श्रीसोमतिलक
यस्य पुरो नमतां परभावाः स्फूर्ति भजन्ति भूवलये । अभिशरभं रामसिका मदोत्कटाः करटिनो ननु के ! ॥ १३ ॥ शिवमौलिरनुत्तरमुखकमलप्रीवेयकानयग्रीवः । सुरदशनोदरहृदयः पर्यन्तार्णवविशालकटिः ॥ १४ ॥ सुरगिरिनाभिश्च नभो वलयाञ्चितभुजपदादिकावयवः । यत्र त्रिभुवनपुरुषः सङ्क्रामत्यात्मदर्श इव ॥ १५ ॥ भवतस्तदवतु भवतो भजन्तु भव्याश्च तदभवन्तोऽपि । कृत्यानि तेन कुर्वन्त्यनिशं तस्मै नमस्यन्तु ॥ १६ ॥ जानीत ततः स्वहिताहितं विहायाहितानि कृत्यानि । तस्य स्मरताजस्रं तस्मिन् यूयं यतध्वं च ॥ १७ ॥ यन्मनसीदं ज्ञानं मिथ्यात्वं नैव तं पराभवति । किं रविविमानमभितः प्रसरन्ति तमांस्यपि कदाचित् ? ॥१८॥ श्रयत श्रुतप्रवहणं यद् यत् संस्मृत्य संसृतिसमुद्रम् । अतिलङ्घ्य लेभिरे प्राक् परमपदं द्वीपवदनेके || १९ ॥ यस्येदं हृदि वसति प्रकटितविकटप्रभावसम्भारम् । मन्त्र इव तस्य न पुरः स्फुरन्ति विपदः कदाचिदपि ॥ २० ॥ जगति तदस्ति न किञ्चिन्न साध्यते. स्त्रिकालविदः । वचनैर्विरोधरहितैरासिद्धेवीतरागस्य ॥ २१ ॥ तस्मादाराधयताध्ययनेनाऽध्यापनेन वाचनया |
धर्मकथया तथाऽनुस्मरणेनाऽन्वहं तपसा ॥ २२ ॥ कर्मापनयत पुस्तक पुस्तिकाकारणैस्तदर्चाभिः । तद्गोपनोपकरणभ्यानविधानैर्भवोपचितम् ॥ २३ ॥