________________
अर्हन्नामसहस्रसमुश्वयः
जिननाथ जगन्नाथो जगत्स्वामी जगत्प्रभुः । जगत्पूज्य जगद्वन्द्यो जगदीशो जगत्पतिः ॥ १ ॥ जगनेता जगज्जेता जगन्मान्यो जगद्विभुः । जगज्ज्येष्ठो जगच्छ्रेष्ठो जगध्येयो जगद्धितः ॥ २ ॥ जगदच्य जगद्बन्धुर्जगच्छास्ता जगत्पिता । जगनेत्रो जगन्मैत्रो जगद्दीपो जगद्गुरुः ॥ ३ ॥ स्वयंज्योतिरजोऽजन्मा परं तेजः परं महः | परमात्मा शमी शान्तः परंज्योतिस्तमोऽपहः ॥ ४ ॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरो गुरुः । अनन्तजिदनन्तात्मा भव्यबन्धुरबन्धनः ॥ ५ ॥ शुद्धबुद्धि: प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धः साध्यः सुधीः सुगीः ॥ ६ ॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । स्वयंभूष्णुरसम्भूष्णुः प्रभूष्णुरभयोऽव्ययः ॥ ७ ॥ दिव्यभाषापतिर्दिव्यः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्द्धर्माध्यक्षो दमीश्वरः ॥ ८ ॥ निर्मोहो निर्मदो निःस्वो निर्दम्भो निरुपद्रवः । निराधारो निराहारो निर्लोभो निश्चलोऽचलः ॥ ९ ॥ निष्कामी निर्ममो निष्वक् निष्कलङ्को निरञ्जनः । निर्गुणो नीरसो निर्भी र्निर्व्यापारो निरामयः ॥ १० ॥ निर्निमेषो निराबाधो निर्द्वन्द्वो निष्क्रियोऽनघः । निःशङ्कश्व निरातङ्को निष्फलो निर्मलो मलः ॥ ११ ॥ ॥ इति श्रीअर्हन्नामसहस्त्रसमुच्चये द्वितीयशतप्रकाशः ||२||
विरचितः ]
( ३ )