________________
॥ ॐ अर्हम् नमः ॥ अनेकजैन पूर्वाचार्यविरचितः
॥ श्रीजैनस्तोत्रसन्दोहः ॥
[१] श्रीहेमचन्द्राचार्यविरचितः श्रीअर्हन्नामसहस्त्रसमुच्चयः ।
'अ ' नामापि कर्णाभ्यां शृण्वन् वाचा समुच्चरन् । जीव: पीवरपुण्यश्रीर्लभते फलमुत्तमम् ॥ १ ॥ अत एव प्रतिप्रातः समुत्थाय मनीषिभिः । भक्त्याऽष्टामसहस्रार्ह नामोच्चारो विधीयते ॥ २ ॥ श्रीमानर्हन् जिनः स्वामी स्वयम्भूः शम्भूरात्मभूः । स्वयंप्रभुः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥ ३ ॥ विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः । विश्वविद् विश्वविद्येशो विश्वयोनिरनीश्वरः ॥ ४ ॥