SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ "प्रस्तावना । (१०१) एतदर्थे विशेषजिज्ञासुभिर्विलोकनीया श्रीआगमोदयसमितिद्वारा प्रसिद्धायाः श्रीशोभनमुनिविरचितायाष्टीकाचतुष्कसमलङ्कृतायाः स्तुतिचतुर्विंशतिकायाः प्रो. ही. र. कापडीया संहब्घा संस्कृतभाषायां सुविस्तृता भूमिका । ___ अपरेऽप्यनेके सम्भवेयुः श्रीमता प्रणीता ग्रन्थास्तांश्च सूचयिष्यन्ति ये केचिद्विपश्चितो मां तेषां मंस्येऽहमनल्पतरमुपकारम् । समशोधि सं. १७३१ वर्षे श्रीमानविजयविरचितो धर्मसंग्र. हाभिधो ग्रन्थः पूज्यपादेन । अष्टादशावधानकरणेन चमच्चकार गूर्जराधिपति श्रीमहबतखानमिति कथने तु नोस्ति कथमपि कथऋथिकताया अवकाशः, यत आसन् पुरा सहस्रावधानिनः श्रीमुनिसुन्दरमूरयः, अष्टोत्तरशतावधानिनः श्रीसिद्धिचन्द्रगणयः श्रीशान्तिचन्द्रोपाध्यायाश्च । दरीदृश्यन्तेऽधुनाप्यनेके शेमुषोशालिनोऽनेकावधानकारिणः । ओळीतपविधानानन्तरं श्रीविजयप्रभसूरिवरैरेतस्मै व्यतारि १७१८ तमे वैक्रमाब्दे वाचकपदमिति 'सुजशवेलीभास' नामकगूर्जरकाव्यगतनिम्नलिखितपद्यावलोकनेन प्रतीयते ओळी तप आराध्यु विधि थकी तस फल करतलि कीध । वाचकपदवी सतर अढारमांजी श्रीविजयप्रभसूरि दीध ॥ श्रीमदानंदघनमहर्षिणा ज्ञानविमलमूरिणा श्रीदेवचंद्रमुनिना च समं श्रीमतो गाढतरः परिचय इत्यष्टपद्या नवपदपूजया चानुमीयते । अविश्रान्तं जैनसाहित्यसेवनया श्रीसिद्धसेनदिवाकर-श्रीहरिभद्रसरि श्रीहेमचन्द्राचार्यादिसंस्मरणकारिणः श्रीमतः १७४५ तमे वैक्रमेवत्सरे माघसुदि वसन्तपञ्चम्यांदर्भावती (डभोई) नगरे समपद्यत स्वर्गवासः। श्रीमतो गुरुपरम्परा शिष्यसन्ततिस्त्वेवम्
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy