________________
... श्री भक्तामर स्तोत्र...
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा
मुद्योतकं दलित-पाप-तमो-बितानम् । सम्यक्-प्रणम्य जिनपाद-युगं युगादा
बालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकल-बाङ्मय-तत्त्वबोधा
दुभूत-बुद्धि-पटुभिः सुरलोक-नाथैः । स्तोत्र-जगत्-त्रितय-चित्तहरे-रुदारैः
स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् ॥२॥ बुद्ध्या विनाऽपि विबुधार्चित-पादपीट !
स्तोतुं समयत-मति-बिगत-त्रपोऽहम् । वालं विहाय जल-संस्थित-मिन्दु-बिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुण-समुद्र ! शशाङ्क-कान्तान्
कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त-काल-पवनोदत-नक्रचक्र
को वा तरीतु-मल-मम्बु-निधि भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्ति-वशान्मुनीश !
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्तः। प्रीत्याऽऽत्म-वीर्य-मविचार्य मृगो मृगेन्द्र
नाभ्येति कि निशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहास-धाम
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मघौ मधुरं विरोति
तचारु-चूत-कलिका-निकरेक-हेतुः ॥६॥ त्वत्संस्तवेन भव-सन्तति-सन्निवद्धं
पापं क्षणाक्षय-मुपैति शरीर-भाजाम् । आक्रान्त-लोक-मलि-नील-मशेषमाशु
सूर्याशु-भिन्नमिव शार्वर-मन्धकारम् ॥७॥ मत्वेति नाथ ! तब संस्तवनं मयेद
___मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥८॥ आस्तां तव स्तवन-मस्त-समस्त-दोषं
त्वत् संकवाऽपि जगतां दुरितानि हन्ति। दूरे सहस-किरणः कुरुते प्रभव
पद्माकरेषु जलजानि विकासमाधि ॥९॥ नात्यद्भुतं भुवन-भूषण ! भूत-नाथ !
भूते-गुणे-भुवि भवन्त-मभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दृष्ट्वा भवन्त-मनिमेष-विलोकनीयं
नान्यत्र तोष-मुपयाति जनस्य चक्षुः। पीत्वा पयः शशिकर-युति-दुग्धसिन्धोः
क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥११॥ यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं
निर्मापित-त्रिभुवनैक-ललामभूत !। तावन्त एव खलु तेऽप्यणवः पृथिव्यां
___यत्ते समान-मपरं नहि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुर-नरोरग-नेत्रहारि
निःशेष-निर्जित-जगत-त्रितयो-पमानम् । बिम्बं कलङ्क-मलिनं क्व निशाकरस्य
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥१३॥ सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप
शुभ्रा-गुणा-त्रिभुवनं तव लङ्घयन्ति । ये संश्रिता-खिजगदीश्वर-नाथमेकं
कस्तान-निवारयति सञ्चरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकार-मार्गम् । कल्पान्त-काल-मरुता चलिताचलेन
किं मन्दरादि-शिखरं चलितं कदाचित् ? ॥१५॥ Jain Education International 2010_04
निघूमवर्ति-रपवर्जित-तैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिता-चलानां ।
दीपोऽपरस्त्वमसि नाव ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचि-दुपयासि न राहुगम्यः
___ स्पष्टीकरोषि सहसा युगपजू-जगन्ति । नाम्भोधरो-दर-निरुद्ध-महा-प्रभावः
सूर्यातिशायि-महिमाऽसि मुनीन्द्र ! लोके ।।१७।। नित्योदयं दलित-मोह-महान्धकार
गम्यं न राहु-बदनस्य न वारिदानाम् । विभ्राजते तब मुखाब्ज-मनल्प-कान्ति
विद्योतयज्-जगद-पूर्व-शशाङ्क-बिम्बम् ॥१८॥ किं शर्वरीषु शशिना-उहि विवस्वता बा
- युष्मन-मुखेन्दु-दलितेषु तपस्सु नाथ !। निष्पन्न-शालि-बन-शालिनि जीव-लोके
कार्य कियज्-जलधर-र्जलभार-नौः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृताऽवकाश
नैवं तवा हरिहरादिषु नायकेषु। तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काच-शकले किरणाऽऽ-कुलेऽपि ॥२०॥ मन्ये बरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति । कि बीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाब! भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।। त्या-मामनन्ति मुनयः परमं पुमांस
मादित्य-वर्ण-ममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ त्वा-मव्ययं विभु-मचिन्त्य-मसङ्ख्य-मायं
ब्रह्माण-मीश्वर-मनन्त-मनङ्गकेतुम् । योगीश्वरं विदितयोग-मनेक-मेकं
___ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः ॥२४॥ बुद्ध-स्त्वमेव विबुधार्चित-बुद्धि-बोधात्
त्वं शङ्करोऽसि भुवन-वय-शङ्कर-त्वात् । धाताऽसि धीर! शिवमार्ग-विधे-विधानात्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नम-स्त्रिभुवनाऽऽर्तिहराय नाथ !
तुभ्यं नमः क्षिति-तलाऽमल-भूषणाय । तुभ्यं नम-स्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम-गुण-रशेषैः
त्वं संश्रितो निरवकाशतया मुनीश !! दोषै-रुपात्त-विविधाश्रय-जातगः
स्वप्रान्तरेऽपि न कदाचिद-पीक्षितोऽसि ॥२७॥ उच्च-रशोक-तरु-संश्रित-मुन्मयूख
माभाति रूप-ममलं भवतो नितान्तम् । स्पष्टोल्लसत्-किरण-मस्त-तमो-बितानं
बिम्बं रखे-रिव पयोधर-पार्श्ववर्ति ॥२८॥ सिंहासने मणि-मयूख-शिखा-विचित्रे
विभ्राजते तव वपुः कनकावदातम् । विम्बं वियद्-विलस-दंशु-लता-वितानं
तुड्गोदयाद्रि-शिरसीव सहस्ररश्मेः ॥२९॥ कुन्दा-वदात-चल-चामर-चारु-शोभं
विभ्राजते तब वपुः कलधौत-कान्तम् । उयच्-छशाहु-शुचि-निर्झर-वारि-धार
मुच्चै-स्तटं सुर-गिरे-रिव शात-कौम्भम् ॥३०॥ For Private & Personal Use Only
छत्र-त्रयं तब विभाति शशाङ्क-कान्त
__ मुचैः स्वितं स्थगित-भानुकर-प्रतापम् । मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभं
प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥३१॥ उनिद्र-हेम-नव-पङ्कज-पुज-कान्ति
पर्युल्लसन्-नख-मयूख-शिखा-भिरामी। पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पद्यानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ इत्थं यथा तब विभूति-रभूज्-जिनेन्द्र !
धर्मोपदेशन-विधी न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा
तादृक् कुतो ग्रह-गणस्य विकाशिनोऽपि ॥३३॥ थ्योतन्-मदाबिल-बिलोल-कपोल-मूल
मत्त-भ्रमद्-भ्रमरनाद-विवृद्ध-कोपम् । ऐरावताभमिभ-मुद्धत-मापतन्तं
दृष्ट्या भयं भवति नो भवदा-श्रितानाम् ॥३४॥ भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त
मुक्ताफल-प्रकर-भूषित-भूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाकामति क्रमयुगाचल-संश्रितं ते ॥३५॥ कल्पान्त-काल-पवनोद्धत-वहिकल्पं
दावानल चलित-मुज्वल-मुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुख-मापतन्तं
त्वनाम-कीर्तन-जलं शमयत्य-शेषम् ॥३६॥ रक्तक्षणं समद-कोकिल-कण्ठनीलं
क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम् । आक्रामति क्रमयुगेन निरस्त-शङ्क
स्त्वन्-नाम-नागदमनी हदि यस्य पुंसः ॥३७॥ बल्ग-तुरङ्ग-गज-गर्जित-भीम-नादं
आजी बलं बलबता-मपि भूपतीनाम् । उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं
त्वत्-कीर्तना-त्तम इवाशु भिदा-मुपैति ॥३८॥ कुन्तान-भिन्न-गज-शोणित-वारिवाह
वेगावतार-तरणाऽतुर-योध-भीमे । युद्धे जयं विजित-दुर्जय-जेय-पक्षास्
त्वत्पाद-पङ्कज-बना-श्रयिणो लभन्ते ॥३९॥ अम्भोनिधौ क्षुभित-भीषण-नकचक्र
पाटीन-पीठ-भय-दोल्बण-बाडवाग्नौ । रगत्तरङ्ग-शिखर-स्थित-यानपात्रा
स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ उद्भूत-भीषण-जलोदर-भारभुग्नाः
शोच्या दशा-मुपगता ध्युत-जीविताशाः । त्वत्पाद-पङ्कज-रजोऽमृत-दिग्धदेहा
मा भवन्ति मकर-ध्वज-तुल्य-रूपाः ॥४१॥ आपाद-कण्ठ-मुरु-शृङ्गल-वेष्टिताङ्गा
गाढं बृहन्-निगड-कोटि-निघृष्ट-जड्डाः । त्वन्नाम-मन्त्र-मनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगत-बन्ध-भया भवन्ति ॥४२॥ मत्त-दिपेन्द्र-मृगराज-दबानला-हि
सङ्काम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाश-मुपवाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्र-स्त्रज तव जिनेन्द्र ! गुण-निवद्धा
भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठगता-मजस्रं
तं मानतुङ्ग-मवशा समुपैति लक्ष्मीः ॥४४॥
www.jainelibrary.org