________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१पुत्रं अपत्यं पिता जनकः 'समारभ्य व्यापाद्य आहारार्थं कस्याश्चित्तथाविधायामापदि तदुद्धरणार्थ अरक्तद्विष्टः 'असंयतो' गृहस्थस्तपिशितं भुञ्जानोपि, चशब्दस्यापिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोपीत्यर्थः । तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति । यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्त5 द्विष्टमनसः कर्मबन्धो न भवति, तथान्यस्यापि अरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मवन्धो भवतीति ॥ २८ ॥ सांप्रतमेतद्दूषणायाह -
मणसा जे पउस्सन्ति चित्तं तेसिं ण विजइ । अणवज्जमतहं तेसिं ण ते संवुडचारिणो ॥ २९ ॥ इच्चेयाहिं य दिट्ठीहि सातागारवणिस्सिया । सरणंति मन्नमाणा सेवती पावगं जणा ॥ ३० ॥ जहा अस्साविणिं नावं जाइअंधो दुरूहिया । इच्छई पारमागंतुं अंतरा य विसीयई ॥३१॥ एवं तु समणा एगे मिच्छदिट्ठी अणारिया।
संसारपारकंखी ते संसारं अणुपरियटृति ॥ ३२॥ ये हि कुतश्चिन्निमित्तात् मनसा अन्तःकरणेन 'प्रदुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते । तदेवं यत्तैरभिहितम्-यथा केवलमनःप्रद्वेषेऽपि अनवा कर्मोपचयाभाव इति तत् तेषां 'अतथ्यम्' असदर्थाभिधायित्वं । यतो न ते संवृतचारिणो
मनसोऽशुद्धत्वात् तथाहि - कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं यतः तैरपि मनो20 रहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवति असति तु न भवति, तत् तस्य प्रधानं कारणमिति । ननु तस्यापि कायचेष्टारहितस्याकारणत्वमुक्तम् । सत्यम् , उक्तम् , अयुक्तं तु उक्तम् । यतो भवतैव ‘एवं भावविशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायी, तथान्यदपि अभिहितम् -
"चित्तमेव हि संसारो रागादिक्लेशवासितम् ।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥" तथाऽन्यैरपि अभिहितम् -
"मतिविभव ! नमस्ते यत् समत्वेऽपि पुंसाम्, __ परिणमसि शुभाशैः कल्मशांशैस्त्वमेव । नरकनगरवर्त्मप्रस्थिताः कष्टमेके,
उपचितशुभशक्त्या सूर्यसम्भेदिनोऽन्ये ॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति । तथा ईपिथेपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव । अथोपयुक्तो याति ततोऽप्रमत्तत्वादबन्धक एव । तथा चोक्तम् -
"उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावज्जेज कुलिङ्गी मरेज तं जोगमासज ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org