________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१"कम्मं चयं न गच्छइ चउविहं भिक्खुसमयम्मि ॥" सूत्रकृ० नि० ३१ । __ "कर्म चयं उपचयं चतुर्विधमपि न गच्छति भिक्षुसमये शाक्यागमे । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम् - अविज्ञानमविज्ञा तयोपचितम् , अनाभोगकृतमित्यर्थः । यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते । तथा, परिज्ञानं परिज्ञा- केवलेन । मनसा. पर्यालोचनम् । तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति । तथा, ईरणमीर्या-गमनम् । तेन जनितमीर्याप्रत्ययम् । तदपि कर्म उपचयं न गच्छति प्राणिव्यापादनाभिसन्धेरभावादिति । तथा, स्वप्नान्तिकं-स्वप्नप्रत्ययं कर्म नोपचीयते यथा स्वप्नभोजने तृप्त्यभावः।” सूत्रकृ० टी० पृ० ११।।
"साम्प्रतं यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे- 'कर्म चयं न गच्छति चतुर्विधं "भिक्षुसमये' इति तदधिकृत्याह -
अहावरं पुरक्खायं किरियावाइदरिसणं ।
कम्मचिंतापणहाणं संसारस्स पवड्डणम् ॥ २४ ॥ 'अर्थ'त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा'-पूर्वम् , आख्यातम् – कथितम् , किं पुनस्तदित्याह - 'क्रियावादिदर्शनम्' क्रियैव चैत्यकर्मादिका प्रधान मोक्षाङ्गमित्येवं वदितुं 15 शीलमेषां ते क्रियावादिनः, तेषां दर्शनम् - आगमः-क्रियावादिदर्शनम् । किंभूतास्ते क्रियावादिन इत्याह - कर्मणि- ज्ञानावरणादिके चिंता-पर्यालोचनम् – कर्मचिंता, तस्याः प्रनष्टाः अपगताः कर्मचिन्ताप्रनष्टाः । यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रनष्टाः । तेषां चेदं दर्शनं संसारवर्धनमिति ॥ २४ ॥ . यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह -
जाणं काएणऽणाउट्टी अबुहो जं च हिंसति ।
पुट्ठो संवेदइ परं अवियत्तं खु सावजं ॥ २५ ॥ .. यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्टयनाकुट्टी । इदमुक्तं भवति-यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेद25 नादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः । तथा, अबुधः अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान कर्मोपचय इति । अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा- 'चतुर्विधं कर्म नोपचीयते भिक्षुसमये' इति तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं शेषं त्वीर्यापथस्वप्रान्तिकभेदद्वयं च शब्देनोपात्तम् । 30. कथं तर्हि तेषां कर्मोपचयो भवति इति ? । उच्यते - यद्यसौ हन्यमानः प्राणी भवति, हन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मि इत्येवं च यदि बुद्धिः प्रादुःष्यात् , एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते, तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति । एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति । तत्र प्रथमभङ्गे हिंसकोऽपरेवेकत्रिंशत्स्वहिंसकः । तथा चोक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org