________________
5
10
15
देवानन्दमहाकाव्यम् ।
तया द्रुमाणां कुसुमैरुपास्यया द्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ४० ॥ चतुष्पथे पण्यमगण्यमुचितं श्रितैः प्रभांकृत्कृतसत्यकर्मभिः । उपेत्य देवैः क्रियते ऋयिव्रजैर्मिथस्त्वदा भाषणलोलुपं मनः ॥ ४१ ॥ पुरीं पुरन्ध्रीजनरूपसम्पदा सदा जयन्तीं जयवाहिनीजनम् । स्थितस्य दूरे दिशति खनिन्दनामहिद्विषस्तद्भवता निशम्य ताम् ॥ ४२ ॥ अथ स्फुरद्विक्रमभूमभूरभूत् सुराष्ट्रकूटान्वयभूर्भुवः प्रभुः । रवीन्दुदम्भान्नभसे यदर्पितं हिरण्यपूर्व केसिपुं प्रचक्षते ॥ ४३ ॥ स भानुभानुर्भुवि भानुसंज्ञया बभौ बृहद्भानुवि भानुभावभृत् । प्रतापरूपं श्रयताऽऽयतार्थ भीर्मनस्तु येन घुसदां न्यधीयत' ॥ ४४ ॥ तदङ्गजः पुञ्ज इति श्रियाऽऽख्यया जयंश्च मुञ्जं नृपवर्ग आदिमः । यदाश्रयादाह हरिश्चलेत्यमुं प्रर्वादमुच्चैरयशस्करं श्रियः ॥ ४५ ॥ रणेऽतिरीणैर्वहुद्दष्ट पिञ्जलैस्सदाऽसुरी भासनयाऽऽस्यसन्निधौ ।
जीवनार्थ जवसनि यावनैर्गणैस्तमाशङ्कय तदादि चक्रिरे ॥ ४६ ॥ समञ्जुसेनैष जनार्दनं जयन् यया प्रजारञ्जनमार्जयजयी । व्यधायि तस्यै शिरसा रसान्ििमलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४७ ॥ चमूप्रचारैरचलाप्रकम्पिना द्विषां गणो येन रणाङ्गणे क्षणात् । प्रकोपकम्पादरणैरिवारुणैरुरोविदारं प्रतिचस्करे नखैः ॥ ४८ ॥ तदात्मजन्माङ्गजमञ्जिमा जने द्विधापि नारायणशब्दविश्रुतः । पुरं वलक्षं विदधद् यशोधनैर्बभूव रक्षःक्षतरक्षणं दिवः ॥ ४९ ॥
१ 'प्रभाकृत्' सूर्यरूपः रूप्यकः सत्यंकारपदे दिवि न्यस्तः । २ ' - स्त्वदाभाषण - ' त्वत् समुच्चयवाची ।
३ ' - द्विषस्तद्भवता' स एव भवः तद्भवः तस्य भावः तद्भवता ४ 'ताम्' तां पुरीं निशम्य अहिद्विषः इन्द्रस्य मद्भवता निन्दां दिशति दत्ते - पुर्या अहं दूरे स्थितः तेन मद्भवो न प्रशस्य इति भावः । ५ 'कसिपुं' "कसि पुर्भोजना - Sऽच्छादो” इति हैमः । [ "कसि - पुर्भोज्य- वस्त्रयोः" है० अने० सं० कां० ३ श्लो० ४३३]
६ 'प्रतापरूपं ' ' प्रताप - कीर्ती' इति वा पाठः ।
७ 'श्रयतायतार्थ भी - आयता दीर्घा अर्थ भीः देवानां चित्तैर्निहिता ।
८ 'पुञ्ज' पक्षे नृषु पवर्गेषु ज आद्यः । मुजस्तु अन्त्यः । ९ 'प्रवाद - ' प्रवादकथनेन हरेः असामर्थ्यं व्यञ्जितम् - यद्
1 मा० प्र० स० श्लो० ३९ चतुर्थपादः ।
2 मा० प्र० स० श्लो० ४० चतुर्थपादः ।
3 मा० प्र० स० श्लो० ४१ चतुर्थपादः ।
4 मा० प्र० स० श्लो० ४२ चतुर्थपादः । माघे तु कशिपुनामा राक्षसः, अत्र तु तत्स्थाने 'कसिपु' पदं भिन्नार्थकम् । शकारसकारयोरैक्यमत्र ज्ञेयम् ।
5 मा० प्र० स० श्लो० ४३ चतुर्थपादः ।
[ प्रथमः सर्गः ]
अयं हरिः तस्माद् राज्ञः श्रियं प्रत्याहर्तुमक्षमः तदा अपवादं चकार । १० - रीणे - ' रणैः भग्नैः ।
११- दृष्टपिञ्जलै ' दृष्टं खपरचक्रजं भयम् तेन पिजला व्याकुलाः तैः - भृशमाकुलैः ।
१२ 'सहासुरी' इति वा पाठः ।
१३ ' जवसानि' तृणानि ।
१४ ‘समञ्जसेनैष' “न्याय - सुदेशरूपं समञ्जसम्” इति हैमः । १५ ' - दिशे नमः ' दिक्शब्देन लक्षणया रीतिः नीतिमार्गो वा । १६ 'रक्षः क्षतरक्षणं दिवः' रक्षोभिः क्षता भग्ना रक्षणं रक्षा यस्य तत् दिवः पुरम् - उज्ज्वलयन् । रक्षसां क्षतानि प्रहाराः तेभ्यो रक्षणं यत्र तत् । रक्षोभिः कृतं भग्नम् लक्षणं दर्शनं यस्य तत् ।
6 मा० प्र० स० श्लो० ४४ चतुर्थपादः ।
7 मा० प्र० स० श्लो० ४५ चतुर्थपादः । माघे तु 'गणैर्यमाशय' इति पाठभेदः ।
8 मा० प्र० स० श्लो० ४६ चतुर्थपादः ।
9 मा० प्र० स० श्लो० ४७ चतुर्थपादः ।
10 मा० प्र० स० श्लो० ४८ चतुर्थपादः । माघे तु 'रक्षः क्षतरक्षणं दिवः' इति पदच्छेदभेदः ।