________________
5
10
15
20
देवानन्दमहाकाव्यम् ।
[ प्रथमः सर्गः ]
जिनप्रभुः संकट कोटि किंह (?) कृत् पुरःस्थदीपैः प्रतिबिम्बितैस्तनौ । विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाऽम्भसां निधिः ॥ २१ ॥ करम्बिताः पादनखांशुराशिभिर्बभुः प्रभोगौरवपुःप्रभाभराः । प्रदीपदीप्रद्युतिपुञ्ज संयुजस्तुषारमूर्तेरिव नक्तमंशवः ॥ २२ ॥ प्रसादयन् मर्त्यगणः सविस्मयस्तथाऽपरोऽमर्त्यगणोऽनिमेषदृक् । प्रभोः पुरोऽन्योऽन्यनिषक्तरोचिषौ तदेकवर्णाविव तौ बभूवतुः ॥ २३ ॥ अयं हि कैवल्यधरः खसेविनां ददाति कैवल्यपदं न तन्महत् । तदद्भुतं यद्ददते नृणां सृजैस्तपोधनाभ्यागमसम्भवा मुदः ॥ २४ ॥ दशावतारः कमलोपमाननः फणीश्वरोत्सङ्गविनिर्मितासनः । जिनः प्रभावान्नरकान्तकारकः स पुण्डरीकाक्ष इति स्फुटोऽभवत् ॥ २५ ॥ जगत्पवित्रे विषयेऽत्र सन्त्यतः पराणि तीर्थान्यथ किं पुनर्विधिः । अमुं चकारेति धियेव मा हरः शुचिस्मितां वाचमं वोचदच्युतः ॥ २६ ॥ मदादनम्राननमार्जुनेऽर्जुनी पयः किरन्ती चरति प्रतिस्थलम् । पिबन् यथार्थाभिध एष तन्महैर्व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ २७ ॥ अथास्त्यमुष्मिन् नगरं गुरोर्गिरेरिलादिदुर्गाख्यमुपत्यकाश्रितम् । त्रिविष्टपस्यापि च यन्मणीगृहैरदस्त्वर्यां नुन्नमनुत्तमं तमः ॥ २८ ॥ कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना । पुरप्रदेश: स ऋचामिव ध्वनिर्निधिः श्रुतीनां धनसम्पदामिव ॥ २९ ॥ हरिप्रियां या नगरी गरीयसीं सदा समव्याप्यतयेवं शिश्रिये । कथश्चिदैकात्म्यवशात् तया पुनर्गिरोऽथवा श्रेयसि केन तृप्यते " ॥ ३० ॥ पुरन्दरस्यापि पुरं प्रणूयते पुराणविद्भिर्निजवृत्ति सिद्धये ।
१ 'अमुं चकारेति धियेव मा हरः' विधिः अमुं देशम् -- इति धिया इव चकार । 'इति' इति किम् ? अच्युतः कृष्णः, हरो रुद्रः मा शुचिस्मित हास्यवाणीम् अवोचत् अवादीत् ।
२ 'मा' योगे अडभावेऽपि 'अ' इति अव्ययं विस्मये । यद्वा 'मा' इति अव्ययं भिन्नम् ।
३ ' - नम्राननमार्जुने' आर्जुनं तृणगणः ।
४ ‘अर्जुनी' गौः ।
५ ' यथार्थाभिध एष' गूर्जराणां गोप्रधानत्वेन तत्राणात्
1 मा० प्र० स० श्लो० २० तृतीय - चतुर्थपादौ अत्रापि तावेव तृतीय- चतुर्थपादौ ।
2 मा० प्र० स० श्लो० २१ चतुर्थपादः ।
3 मा० प्र० स० श्लो० २२ चतुर्थपादः ।
4 मा० प्र० स० श्लो० २३ चतुर्थपादः । 5 मा० प्र० स० छो० २४ चतुर्थपादः ।
यथार्थनामा |
६' - रदस्त्वया' अया लक्ष्म्या ।
७ ' समव्याप्यतयेव' या नगरी लक्ष्मी शिश्रिये, पुनः गिरः २-३ शिश्रिये । तया लक्ष्म्या वाणीनामैक्यात् सर्वपदार्थानामभिधेयत्वात् । यत्र यत्र निषिद्धवं तत्र तत्र अधर्मत्वम्, यत्र यत्र अधर्मत्वं तत्र तत्र निषिद्धत्वम् इति समव्याप्तिः । तथा यत्र लक्ष्मीः स्वर्णादिर्भावः तत्र तन्नामशब्दः, यत्र यत्र शब्दः तत्र तत्र तद्वायोऽर्थः इति समव्याप्तिः । वागर्थयोः सदा संपृक्तत्वात् ।
6 मा० प्र० स० श्लो० २५ चतुर्थपादः ।
7 मा० प्र० स० ० २६ चतुर्थपादः ।
8 मा० प्र० स० श्लो० २७ चतुर्थपादः ।
9 मा० प्र० स० श्लो० २८ माघस्य पूर्वार्धम् अत्रापि पूर्वा
र्धम् । माघस्य चतुर्थपादः अत्रापि स एव ।
10 मा० प्र० स० श्लो० २९ चतुर्थपादः ।