________________
5
10
देवानन्दमहाकाव्यम् |
संदक्षजातिप्रणयं कलाधरं धरन्तमुचैर्भुवनोपकारकम् । यशोऽर्जुनं सज्जनमाश्रये श्रिये स्फुटोपमं भूतिसितेन शम्भुना' ॥ ५ ॥ असज्जनं प्राप्य गुणाधिकाऽपि गौर्भवेद सोमालतयाऽतिदुर्गमा । सुसीमतां नैति रेसेsपि बिभ्रतं धरा धरेन्द्रं व्रततीततीरिव ॥ ६ ॥ प्रभोः प्रणेतुं गुणगौरवं स्तवं गुरुं कविं वा न वितर्कये क्षमम् । सदा -सुरासक्तमतिं स्वकान्तिभिर्विडम्बयन्तं शितिवाससस्तनुम् ॥ ७ ॥ तथापि गौरं चरितैर्गुरुं स्तुवन् से-मौक्तिकश्रीफललिप्सुरस्म्यहम् । तपोमहोभिः सहितं समुन्नतं धनं घनान्ते तडितां गुणैरिव ॥ ८ ॥ कृपाश्रयात् स्वीयगुरोः प्रसादतः खसाध्यसिद्धिं श्रयिताऽस्मि निःश्रमम् । समीरणाद रेणुरुपैति सज्जितं कुथेने नागेन्द्रमिवैन्द्रवाहनम् ॥ ९ ॥ अथात्र जम्बूपपदेऽस्ति भारतं प्रभारतं द्वीपकुलप्रदीपके । महोदयं ध्यायदिवाऽस्य गङ्गया विभातमच्छस्फुटिकाक्षमालया ॥ १० ॥
१ 'सदक्षजातिप्रणयम्' दक्षजातिः पण्डितः, पक्षे पार्वत्याम् अतिप्रणयः स्नेहः ।
२ 'गौ' गौर्वाणी भूर्वा ।
३ 'असोमालतया' असोमालतया जाती एकवचनम् । असोमालता कठिनता तया ।
४ 'सुसीमताम्' शैत्यम् ग्रामसीमतां वा ।
५ 'रसेऽपि' रसे जले शृङ्गारादौ वा ।
६ 'गुरुम् ' गुरोः देवसेव्यत्वेन उपमा ।
७ 'कविम्' शुक्रस्य गौरवेन ।
८ 'सदा -सुरासक्तमतिम्' देवाः सुराः, पक्षे असुराः, बलभपक्षे सुरा मद्यम् ।
1 'स्फुटोपमम्' इत्यादि मा० प्र० स० श्लो० ४ चतुर्थः पादः 2 यथा व्रततीततीः बिभ्रतं धरेन्द्रं प्राप्य गुणाधिकाऽपि धरा अतिदुर्गमा रसरहिता भवति तथा गुणाधिकाऽपि वाणी असजनं प्राप्य असोमालतया अतिदुर्गमा भवति पुनश्च रसेऽपि सुसीमतां न एति ।
माघे तु 'धराधरेन्द्रम्' इति एकं पदम् - प्र० स० छो० ५ चतुर्थः पादः ।
3 बलभद्रो हि सुरायां सदा आसक्तः इति प्रसिद्धम् अतः सदासुरासक्तमतिं बलदेवम् इति भावः ।
विडम्बयन्तमित्यादि - मा० प्र० स० श्लो० ६ चतुर्थपादः ।
4 'समौक्तिक -' इति पदस्य १ 'सम + औक्तिक अथवा २ 'स+मौक्तिक - ' अथवा ३ ' सः + मौक्तिक -' इति त्रिधा पदवि भागः । १ समानि समग्राणि औक्तिकानि, २ मौक्तिकेन सहितम्, ३ सः --- अहम् - प्रन्थकारः मौक्तिकयुक्त श्रीफललिप्सुः इति च अनुक्रमेण अर्थों बोध्यः ।
[ प्रथमः सर्गः ]
९ 'स मौफिक श्री फल लिप्सुर स्म्यहम्' स अहम् - जाड्यपात्रम् । मुक्तिसंबन्धिश्रिया युक्तफले । यद्वा समग्र - औक्तिकस्य वाचिस्यक फले लिप्सुः । “तृन्नुदन्त - " [२।२।९० हैम० ] इत्यादिना षष्ठीनिषेधात् ।
१० 'कृपाश्रयात् ' कृपा इति खीयगुरोः श्रीकृपाविजय इति नामसूचा ।
११ 'स्वसाध्यसिद्धिम्' सिद्धिमिति च श्रीसिद्धिविजयं श्रयिताऽस्मि ।
१२ 'कुथेन' “कुथः स्यात् करिकम्बलः " इत्यनेकार्थं • श्लो० १४ । [ " कुथः कुशः, कुथः कीटः, प्रातः स्नानी द्विजः कुथः" इति अनेकार्थमञ्जरी लो० १४- श्लोकाधि० । ]
'घनं घनान्ते तडितां गणैरिव' इति मा० प्र० स० श्लो० ७ चतुर्थपादः । अत्र तु 'गणैः' स्थाने लिपिकारप्रमादात् 'गुणैः ' पाठः प्रतिभाति ।
5 'कृपा' शब्देन ग्रन्थकारः खं गुरुं कृपाविजयं स्मरति । 'कुथेन' इत्यादि मा० प्र० स० श्लो० ८ चतुर्थपादः । माघे अत्र पादे 'इन्दवाहन' शब्दः प्रयुक्तः । अत्र तु 'ऐन्द्रवाहन' शब्द इति मेदः ।
6 'विभान्तमच्छस्फटिकाक्षमालया' इति मा० प्र० स० श्लो० ९ चतुर्थपादः । अत्र तु 'विभान्त' स्थाने 'विभात-' इति तथा 'स्फटिक - ' स्थाने 'स्फुटिक' इति च दृश्यते । चित्रकाव्ये अनुस्वार - विसर्गयोः सतोरपि अनुष्धारणं न दोषावहम् इति कविसमयात् 'विभान्त-' पदं सानुखारं सदपि अत्र समस्यायां ग्रन्थकारेण तत् निरनुखारं विवक्षितम् । 'स्फुटिक' शब्दोऽपि स्फटिपर्यायो भवेत् अथवा प्रमादात् 'स्फटिक' स्थाने 'स्फुटिक' इति जातम् ।