________________
5
10
15
७८
20
देवानन्दमहाकाव्यम् ।
अथ प्रशस्तिः
जयतु विजयलक्ष्म्या पार्श्वविश्वकभाखान् अभिमतसुरशाखी सैष शतेश्वरार्च्यः । जयतु विजयदेवश्रीगुरोः पहलक्ष्मीप्रभुरिह विजयादिः श्रीप्रभः सूरिशक्रः ॥ ७९ ॥ तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीर्विशिष्य,
शिष्यः श्रीमत्कृपादेर्विजयपदभृतः सत्कवेर्वाचकश्रीः । मेघः पद्माप्रसादाद् विशदमतिजुषां श्राव्यकाव्यं चकार, देवानन्दं सदैन्द्रोज्वलविपुलधिया शोध्यतां शोध्यमत्र ॥ ८० ॥ माघः सान्निध्यकृद् भूयाद् मल्लिनाथैस्तथैक्ष्यताम् । हास्येन मम दास्येऽस्मिन् यथाशक्युपजीविते ॥ ८१ ॥ नोद्रेकः कवितामदस्य न पुनः स्पर्द्धा न साम्यस्पृहा, श्रीमन्माघकवेस्तथापि सुगुरोर्मे भक्तिरेव प्रिया । तस्यां नित्यरतेः सुतेव सुभगा जज्ञे समस्याऽद्भुता सेयं शारदचन्द्रिकेव कृतिनां कुर्याद् दृशामुत्सवम् ॥ ८२ ॥ अस्या न मधुरा वाचो नालङ्कारा रसावहाः । पूर्वसङ्गतिरेवास्तु सतां पाणिग्रहश्रिये ॥ ८३ ॥ कचिद् वक्रोक्तिसाचिव्यमप्यस्या दोषकृन्न हि । सौभाग्यवशतो जह्रे यदर्थं कृतिनामपि ॥ ८४ ॥ मुनि-नयना-श्वेन्दु-मिते (१७२७) वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः ॥ ८५ ॥
शरेन्द्रियाद्रीन्दुमितेऽत्र (१७५५) वर्षे व्यलीलिखत् काव्यमिदं सुशिष्यः । श्रीमेरुशब्दाद् विजयज्ञराजां श्रीसुन्दरादिर्विजयाऽभिधानः ॥ १ ॥ युग्मं सम्यग्मङ्गलं सौरमस्मिन् माघेऽवर्णि ज्ञाननित्योदयाय । अस्याभ्यासाद् जाड्यनाशात् प्रभावः प्रौढिं धत्तां मेरुवत् श्रीश्च धीराः ॥ १ ॥ एकादशशतश्लोकैः श्लोको लोके समेधताम् । वाचकेऽध्यापके चास्य देयान्नित्यं समेधेताम् ॥२॥ 25 गोपालगिरिदुर्गेऽस्य लेखनं लेखनन्दनम् । वाचकैर्मेघविजयैः कृतं सुकृतहेतवे ॥ ३ ॥
॥ इति ग्रन्थप्रशस्तिः ॥ सम्पूर्णा जातः (ता) ॥ ॥ इति श्रेयः ॥ श्रीः ॥
१ 'इस्या: ' मेघलक्ष्मीम् अद्भिर्जलैः प्रभाव्य वर्धयित्वा स्वम् आत्मानं शुचीचकुः पवित्रं विदधुः - आषाढीचकुरिति वा । मेघलक्ष्मीम् प्रावृषि आषाढे वा मेघोदयम्-ज्ञाला श्रीजिनम् अनंसीत् ।
[ सप्तमः सर्गः ]
२ ' समेधताम्' सबुद्धिभावम् ।
३ 'लेख' लेखा देवाः ।