________________
देवानन्दमहाकाव्यम् ।
[सप्तमः सर्गः] विषयरसमपास्य सम्भृतोऽसावधरममुं मधुपस्तवाजिहीते ॥४४॥ रविरिव तदलङ्कुरुष्व सिंहासनमुदयाद्रिमुदीतपुण्यभासा। तिमिरमपनय प्रमादजन्यं भवति हि विक्लवता गुणोऽङ्ग नाना' ॥४५॥ ध्वनति नृपतितूर्यधीरघोषे नटति नटे गुरुपट्टमाश्रयत् सः। परमगुरुरतोऽतिर्मुजनाल्याऽऽग्रहपरया विविदे विदग्धसंख्या ॥४६॥ स्थितवति गुरुपट्टकेऽत्र भद्दारकतरणौ यदभूत् प्रमोदरूपम् । हृदि हरिणदृशां तदा प्रनृत्यत्-करवलयखनितेन तद् विववे ॥४७॥ करसरसिजवासमासदत् श्रीः परमगुरोः श्रुतदेवताऽऽश्रयदँ गाम् । जगति सुभगताऽस्य सर्वतोऽङ्गमकलितचापलदोषमालिलिङ्ग ॥४८॥ गुरुमतिधृतिकीर्तिभाग्यतेजः-प्रसरमवेक्ष्य मृगीदृशां मुंदासीत् । हृदि बहिरपि सोन्नतेऽमिताऽऽसामुरसि रसादवतस्तरे स्तनाभ्याम् ॥ ४९ ॥ चतुर इह पुरे व्यतीत्य मासान् विमलगिरि सह सङ्घमाप सूरिः। जनततिरसृजत् स्रजोर्चनार्थ न्यपतदथोचतरूचिचीषयाऽन्या' ॥५०॥ प्रभुरपि समहोत्सवं ननाम प्रथमजिनं च तमार्चयत् स सङ्घः। शिरसि जिनमिहार्चयायि ! कश्चित् खयमिति मुग्धवधूमुदास दोभ्या॑म् ॥५१॥ युवतिकुलमलं जगाविहानु सघुमृणचन्दनपूजं जिनस्य । नटनपटुबटुं स्म चाहरन्ती त्वरयति रन्तुमहो जनं मनो भूः ॥५२॥ कतिपयदिवसान्तरे गुरूणां प्रतिवलने पथि भूमिकाऽपि लघ्वी । अनुपदमशनाय सङ्घमुच्चैरभवदमुश्चति वल्लभेऽतिगुर्वी ॥५३॥ जलधरसमयेऽन्तरे पयोधेः सुविभवमन्दिरबन्दिरे स्थितेऽस्मिन् ।
10
15
20
१'अपास्य' त्यक्ता अमुम्-अधरं हीनं विषयरसम् । २'संभृतः- सावधानः ।
३ 'हि' हि निश्चितम् विक्लवता अगुणः दोषः। 'अङ्ग' संबोधने 'नाना' अनेकप्रकारः।
४ 'अतिमुत्' पदृस्थाने आग्रहकारिण्या जनश्रेण्या अतिमुत् हर्षः। ५ विविदे' लब्धः “विद लामे" धातुः ।
६ 'विदग्ध-' विदग्धानां चतुराणां सखीव सखी तया । - ७ 'भट्टारक-' भगेन ज्ञानादिना तारके पृषोदरादिखात् साधुः ।
८ 'गाम्' वाणीम् ।
।
९ 'मुद् आसीत्' मुद् हर्षः । सा मुत् हृदि अमिता मानम् अप्राप्ता बहिरपि आसां स्त्रीणाम् उरसि स्तनाभ्यामुन्नते अवतस्तार-विस्तारमाप। १० 'अन्या' काचित् जनततिः। ११ 'उदास' अयि इति आमन्त्रणे इह शिरसि जिनम् अर्चय इति हेतोर्मुग्धवधू दोाम् उदास उच्चैश्चकार ।
१२ 'भूः' मनोरूपा भूः बटुं रन्तुं रमयितुं जनं लोकं खरयति स्म । मनश्चित्तम् आहरन्ती मोहयन्ती। १३ 'भूमिका-' भूमिका प्रयाणभूः ।
1 मा० स० स० श्लो० ४२ चतुर्थः चतुर्थतया ।
2 मा० स० स० श्लो. ४३ चतुर्थः चतुर्थतया । माघे '-जनानाम्' इति ।
3 मा० स० स० श्लो० ४४ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० ४५ चतुर्थः चतुर्थतया । 5 मा० स० स० श्लो० ४६ चतुर्थः चतुर्थतया ।
6 मा० स० स० श्लो० ४७ चतुर्थः चतुर्थतया ।
7 मा० स० स० श्लो० ४८ चतुर्थः चतुर्थतया। माघे '-चतरोच्चिची-' इति ।
8 मा. स. स. श्लो० ४९ चतुर्थः चतुर्थतया । 9 मा० स० स० श्लो०५० चतुर्थः चतुर्थतया।माघे 'मनोभूः'। 10 मा० स० स० ० ५१ चतुर्थः चतुर्थतया ।