________________
३. आर्यनंदिलचरितम् ।
३. श्री आर्यनन्दिलचरितम् ।
१९
१ ॥
5
८ ॥
११. आर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः । संसारारण्यनिर्वाहसार्थवाहूः पुनातु वः ॥ क आर्यनन्दिलस्वामिगुणवर्णन ईशिता । अष्टौ कुलानि नागानां यदाज्ञां शिरसा दधुः ॥ २ ॥ यत्प्रसादेन वैरोट्या क्षमाया उपदेशतः । नागेन्द्रदयिता जज्ञे नाममत्राद् विषापहा ॥ ३ ॥ किंचित् प्रस्तौमि तद्वृत्तं गुरुणा गुरुणादृतः । प्रसादेन मृगाङ्कस्थो मृगः किं नाश्रुते नभः ॥ ४ ॥ अस्ति स्वस्तिनिधिः श्रीमत् पद्मिनीखण्डपत्तनम् । मण्डितं सारकासारैः पद्मिनीखण्डमण्डितैः ॥ ५ ॥ तत्र *वित्रासिताशेषशत्रुपक्षः क्षमापतिः । पद्मप्रभाभिधः पद्मासद्म पद्मनिभाननः ॥ ६ ॥ तस्य पद्मावती कान्ता कान्ताशतशिरोमणिः । यया देहश्रिया जिग्ये कान्ता स्वर्गपतेरपि ॥ ७ ॥ तत्रामात्रश्रियां पात्रं श्रेष्ठी श्रेष्ठकलानिधिः । अर्थिचातकपाथोदः ' पद्मदत्तोऽस्ति विश्रुतः ॥ तस्य पद्मयशा नाम वल्लभाऽस्ति रतिप्रभा । पुत्रः सुत्रामपुत्राभरूपः पद्माभिधस्तयोः ॥ ९ ॥ कलाकलापसंपूर्णं तं मत्वा सार्थनायकः । वरदत्तः स्वकां पुत्रीं वैरोट्याख्यां व्यवाहयत् ॥ १० ॥ अन्यदा वन्यदावाग्निदुस्सहे समुपागते । अन्तप्रतिभुवि न्यक्षपक्षेषु जगतोऽशिवे ॥ ११ ॥ युतः स परिवारेण पुण्यनैपुण्यसंक्षयात् । वरदत्तः पुरं प्राप विपापः समवर्तिनः ॥ १२ ॥ युग्मम् । ततः प्रभृति तुच्छत्वात् श्वश्रूः शुश्रूषिताप्यलम् | वैरोट्यामवजानाति तां निष्पितृगृहामिति ॥ १३ ॥ रूपं राढा धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात् पैतृकादेव नारीणां जायते ध्रुवम् ॥ १४ ॥ ततस्तद्वचनैर्दूना विनीतानां शिरोमणिः । साऽहोरात्रं भजेत् काश्यं कर्मोपालम्भतत्परा ॥ १५ ॥ अन्येद्युः साऽथ भोगीन्द्रस्वप्नसंसूचितं तदा । उवाह रत्नगर्भेव रत्नं गर्भ शुभाद्भुतम् ॥ १६ ॥ तृतीये मासि पूर्णेऽथ' दोहदं द्रोहदं द्विषाम् । बभार सारसत्त्वाढ्या दृढं पायसभोजने ॥ १७ ॥ १२. अथार्यनन्दिलः सूरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्द्धनवपूर्वधरः प्रभुः ॥ १८ ॥ तस्यामापन्नसत्त्वायामपि वरदक्षिणा । वदन्ती कद्वदा । यत्किंचिदपि प्रतिकूलति ॥ १९ ॥ अस्याः कथं सुतो भावी निर्भाग्यैकशिरोमणेः । सुतैव भाविनी निष्पित्र्याया दारिद्र्यदीर्घिका ॥ २० ॥ इत्थं दुर्वचनैर्दूना साऽथ प्रभुपदान्तिकम् । आयाद् विमृश्य यचैत्यगृहं पितृगृहं ननु ॥ २१ ॥ अभिवन्द्याथ साऽवादीदुदश्रु प्राग्भवे मया । प्रभो ! विराधिताम्बा किं यन्मय्यपि विरोधिनी ॥ २२॥ प्रभुः प्राह पुराकर्मकृते दुःखसुखे जने । तत् किमन्यस्य दोषो हि दीयतेऽत्र विवेकिभिः ॥ २३ ॥ मानुष्ये दुर्लभे लब्धे सुखदा लाध्यते क्षमा । यदस्यामादृतायां ते सर्वं भावि शुभं शनैः ॥ २४ ॥ ज्ञानाज्ज्ञातो मया वत्से ! दोहदस्तव पायसे । अवतीर्णः 'सुपुण्येन सोऽपि संपूरयिष्यते ॥ २५ ॥ इति वागमृतैस्तस्या" विध्यायन्मन्युपावकः " । शीतीभूता ययौ गेहे स्मरन्ती तद्वचो" हृदि ॥ २६ ॥ पुण्डरीकतपञ्चैत्रपौर्णिमास्यामुपोषिता । व्यधात् पद्मयशास्तस्योद्यापनं च प्रचक्रमे ॥ २७ ॥ तद्दिने पायसापूर्णः प्रदीयेत पतग्रहः । गुरूणां समधर्माणां वात्सल्यं क्रियतेऽथ सा ॥ २८ ॥ तस्मिन् कृते समस्तेऽपि कदर्यानं ददे तदा । " श्वश्रवावज्ञावशाद् वध्वा धिग् दर्पं गुणदूषकम् " ॥ २९ ॥ 30
‘नसाज्या' इति B टि० । 1 A B पाथोदपद्म । 'यमस्य पुरं प्राप' इति B टि० । 2 B C च । f 'कटुभाषिणी' इति B टि० | 3 A C नतु । 4 CN °उदश्रुः । 5 A विराधितं वा । 6 N ° मय्यति । 7 N प्रभुराह । 8 CN मानुषे । 9 N सपुण्येन | 10 A तस्य । 11 A B पावका। 12 A सद्वचो । 13 A खस्रा ; B खना। 14 A दूषणं ।
10
15
20
25