________________
15
२०८
प्रभावकचरिते ततः प्रातः प्रभोरेषाऽऽकारणायादिशन्नरान् । वेगात् तेऽपि प्रभुं दृष्ट्वा यथादेशं व्यजिज्ञपन् ॥ ७३७ ।। क्षुते नष्टे भानुरेव शरणं नापरस्ततः । जीवितव्यं सपुत्राया मम देहि प्रभो! ततः ॥ ७३८॥ श्रुत्वेति गुरुराश्वेव' यशश्चन्द्रसमन्वितः । आययौ पादचारेण समीपेऽम्बडमत्रिणः ॥ ७३९ ।। गणी गणितनिष्णातश्चेष्टामैक्षिष्ट तस्य च । चित्ते विचिन्त्य तन्मातुर्ददौ शिक्षामलक्ष्यधीः ॥ ७४० ॥ नरं निशीथे विश्वासपात्रं प्रेषय मेऽन्तिके । चपलान्नबलिव्यग्रकरं सौगन्धसङ्गतम् ॥ ७४१ ॥ प्रातौलिकानामादेशे दापिते निशि सूरयः । दुर्गाद् बहिः प्रचेलुस्ते गणिना सह तेन च ।। ७४२ ॥ उद्घाट्य गोपुरद्वारा तत्र निर्गत्य ते ततः । गच्छन्तो ददृशुर्मार्गे कलविङ्ककदम्बकम् ॥ ७४३ ॥ चगच्चगिति शब्दाढ्ये तन्मुखे बलिमक्षिपन् । यशश्चन्द्रस्ततो दृष्टनष्टं तत् तत्क्षणादभूत् ॥ ७४४ ।। गच्छन्ति कियध्वानं तावत्ते कपिपेटकम् । अद्राक्षुर्मक्षु तत्रापि सपर्यक्षिपदक्षतान् ॥ ७४५ ॥ असत्तुलं तदाभूत्तत् ततोऽप्यग्रे च ते ययुः । श्रीसन्धवीसूरीवेश्मपार्श्व कातरभीषणम् ॥ ७४६ ।। अग्रे व्यलोकयन् यावत् तावन्मार्जारमण्डलम् । अविच्छिन्नमहारौद्रशब्दभीषितबालकम् ॥ ७४७ ॥ पुष्पाणि तत्र रक्तानि चिक्षेपाथ ननाश तत् । तोरणाने महादेव्याः प्रभुरूद्धंदमः स्थितः ॥ ७४८ ।। अनाकुलं गणी प्रोचे हेमसूरिस्तवाङ्गणे । आयासीदतिदूरेण पादचारेण कष्टभूः ॥ ७४९ ॥ अभ्युत्थानादिका पूजा कर्तुं समुचिता तव । एषोऽर्चितो यतः सर्वैः पीठैर्जालन्धरादिभिः ॥ ७५० ।। एवं वदत एवास्य चलञ्चञ्चलकुण्डला । पुरः श्रीसैन्धवीदेव्यस्थाद् योजितकरद्वया ॥ ७५१ ॥ आतिथ्यमतिथीनां नो विधेहि विबुधेश्वरि ! । अम्बडं मोचय स्वीयपरिवाराद् बलादपि ॥ ७५२ ।। श्रुत्वेति सद्गुरोर्वाक्यं प्राह सा परमर्थ्यताम् । सहस्रधाविभक्तश्च स परं योगिनीगणैः ॥ ७५३ ॥ गण्यथाह महाक्षेपादित्थमप्यस्तु चेत्तव । व्यावृत्य निजके स्थाने उपवेष्टुं समर्थता ॥ ७५४ ।।
प्रभोः श्रीहेमचन्द्रस्य दीयतां मानमद्भुतम् । ततो यथोभयो रूपमवतिष्ठेत मण्डले ॥ ७५५ ॥ 20 इत्याकर्ण्य भयोद्धान्ता देवी शब्दं दधौ गुरुम् । यदाहूतः सुरीवर्गोऽमुश्चदह्राय मत्रिणम् ।। ७५६ ।।
प्रदापयामि वाचो वः किं देव्येत्युदिते सति । ब्रह्मादिवाग्भिरास्था का परब्रह्मनिधेः प्रभोः ॥ ७५७ ।। भवत्याः प्राभृतं किञ्चिद् विधास्यामः पुनः प्रगे। विसृज्येति सुरीं स्थानं स्खं ययौ प्रभुरप्यतः ॥ ७५८॥ श्रीमदम्बडमत्रीन्दोर्निद्रा रात्रौ तदाययौ । प्रातः साहसिकं भोगं स श्रीदेव्या व्यधापयत् ॥ ७५९ ॥
इत्थं श्रीसैन्धवीदेव्याः प्रभुभिर्मोचितोऽम्बडः । श्रीमत्सुव्रतचैत्यस्य जीर्णोद्धारमकारयत् ॥ ७६० ।। 25 हस्ताष्टादशकं चैत्यमप्रतिच्छन्दघाटभृत् । अनेकदेववेश्माढ्यं बभौ हेमाद्रिकूटवत् ॥ ७६१ ॥ ध्वजारोपोत्सवं तत्राकारयत् सचिवाग्रणीः । तं समीक्ष्याशिषं प्रादाद् गुरुस्तुष्टिभरैर्गुरुः ।। ७६२ ।।
तथा हिकिं कृतेन न यत्र त्वं यत्र त्वं तत्र कः कलिः।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ७६३ ॥ 80 तजयाचन्द्रसूर्य त्वं निजवंश्यमनोरथान् । पूरयन् चूरयन्नन्तर्बहिःशात्रवमण्डलम् ॥ ७६४ ॥
तमापृच्छय समागत्य स्वस्थाने भूपतिं प्रभुः । प्रधानायुः प्रदानेन विदधे मेदुरं मुदा ॥ ७६५ ॥ दुस्साध साधिका यस्य गुरोरीदृगमानुषी । शक्तिस्तत्कृतपुण्यत्वं मय्येवेति नृपोऽवदत् ॥ ७६६ ॥
1N गुरुराह खेवयश्चन्द्र 12 N !षयदन्तिके। 3 B तोरणाप्रस्थितो देव्याः। 4 N गणीं। 5 N पुरं । 6N सुरीस्थाने । 7 B सैन्धवा । 8 D प्रधानासुप्रदा। 9D दुस्साधु'।