________________
१९४
प्रभावकचरिते
10
15
तथा हिपातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ।
षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ ३०४॥ व्याधूतशिरसः श्लोकमेनं सामाजिका हृदा । श्रुत्वा सत्यार्थपुष्टिं च तेऽतुलं विस्मयं दधुः ।। ३०५॥ ततः श्रीपालमाका-स्नेहयत् तेन स प्रभुः । आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ३०६ ।। अस्य वृत्तं ततः श्रीमजयसिंहनरेशितुः । ज्ञापयित्वा च तत्पार्धाद् द्रव्यलक्षमदापयत् ॥ ३०७ ॥ अन्यदर्शनसम्बद्धविद्वत्प्रणतितस्तदा । प्रहीणभाग्यशक्त्यायुःस्थितिं खं सुविमृश्य सः ॥ ३०८ ।।
तत्रतत्रानृणो भूत्वा देवबोधो महामतिः । तेन द्रव्येण गङ्गायां गत्वाऽसाध्नोत् परं भवम् ।।-युग्मम् । ६१३. अन्यदा सिद्धभूपालो निरपत्यतयादितः । तीर्थयात्रां प्रचक्रामानुपानत्पादचारतः ॥ ३१० ॥
हेमचन्द्रप्रभुस्तत्र सहानीयत तेन च । विना चन्द्रमसं किं स्यान्नीलोत्पलमतन्द्रितम् ॥ ३११ ॥ द्विधा चरणचारेण प्रभुर्गच्छन्नदृश्यत । शनैर्यान् जीवरक्षार्थ मूर्तिमानिव संयमः ॥ ३१२ ॥ अर्थितैर्वाहनारोहे निषिद्धश्चरितस्थितेः । किञ्चिद् दूनो जडा यूयमिति तानाह सौहृदात् ॥ ३१३ ॥ प्राकृतेनोत्तरं प्रादाद् यद् वयं निजडा इति । राजा चमत्कृते 'दध्यावूचेऽसौ सजडा जडाः ॥ ३१४ ।। वयं तु सुधियः स्वीयमाचारं दधतो ननु । निजडा इत्यहो सूरेर्ध्वनिव्याख्यातिचातुरी ॥ ३१५ ॥ दिनत्रयं न संजग्मुर्नृपस्याध्वनि सोऽपि च । कुपितानिव विज्ञाय सान्त्वनाय तदागमम् ॥ ३१६ ॥ प्रतिसीरान्तरस्थानामाचामाम्लेन भुञ्जताम् । तामपावृत्य भूपालोऽपश्यत् तदशने विधिम् ।। ३१७ ।। अहो जितेन्द्रिया एते क्लिन्नमन्नं हि नीरतः। आकृष्य गृह्णते तद् दुश्चरमेतत् तपो ध्रुवम् ॥ ३१८ ॥ अज्ञान एव लोकोऽयममून मिष्टान्नभोजिनः । भक्तेरतिशयाद् भव्यलोकानां वदति ध्रुवम् ।। ३१९ ॥
ध्यात्वेत्याह भवद्देहव्यथोच्छेदाय कर्कशम् । नाभक्तेरुक्तमित्यागः पुन्नाग! क्षम्यतां मम ।। ३२० ।। 20 सूरिः प्राह महाराज ! कुर्याद् गीः किं खरा प्रिया । अरक्तद्विष्टवृत्तानां नृपते१र्गतस्य वा ॥ ३२१ ॥
यतःभुञ्जीमही वयं भैक्षं जीर्ण वासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३२२ ॥ सम्मान्य तांस्ततो राजा स्थानं सिंहपुरा भिधम् । दत्त्वा द्विजेभ्य आरूढः श्रीमच्छत्रुञ्जये गिरौ ॥ श्रीयुगादिप्रभुं नत्वा तत्राभ्यर्च्य च भावतः । मेने स्वजन्म भूपालः कृतार्थमतिहर्षभूः ॥ ३२४ ।। ग्रामद्वादशकं तत्र ददौ तीर्थस्य भूमिपः । पूजायै यन्महान्तस्तां 'स्वानुमानेन कुर्वते ॥ ३२५ ॥ ततश्च गिरिमार्गेणाचिराद् रैवतकाचलम् । निकषा निकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रादापयदावासान संकलीग्रामसन्निधौ । गिरि तत्र स्थितोऽपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ।। तदा श्रीनेमिचैत्यस्य पर्वतो भुवि स्थितेः । जीर्णोद्धारे कारिते च श्रीमत्सजनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९॥
देव ! यादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते* ॥३३०॥-युग्मम् । 1D कृतेर्दध्या 12 N खीयखाचारं । 3 N कुपितानि च। 4 N सिंहासनाभिधम् । 5 N चानुमाने 16 N पर्वतोर्द्धभुवि स्थितः । * B आदर्श एतच्छोकयुग्ममेतादृशं लभ्यते
प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः सचाब्रवीत् । देव ! यादवसद्वंशावतंसस्य जिनेशितुः॥ दारिद्रौघविनाशस्य सुखसंपत्तिदायकः । प्रासादः खामिपादानां कृतिरेषा समीक्ष्यते ॥
25
30
प्रासाद